________________
(७५) शस्यावतारो नाम पञ्चससतितमं सूत्रम् ॥
अपराजित उवाच
कृते पुण्यमयं सर्वं जगदेतत् चराचरम् । पुण्यात्मन: प्रजा राजा सुवृष्ट्या शोभना क्षितिः ॥ १॥ पुण्यं त्रिभागं त्रेतायां द्विभागं द्वापरे तथा। एकभागं कलियुगे मेघाः स्वल्पजलप्रदाः ॥ २॥ सम्प्राप्ते वै कलियुगे पुण्ये च प्रलयं गते । सर्वार्थनाशतो लोका व्याधिदुःखप्रपीडिताः ॥ ३॥ त्वं पिता जगतां नाथ प्रभो विश्वस्य पालक ।
प्राप्ता कलियुगो घोर; कथं लोकस्तरिष्यति ॥ ४॥ विश्वकर्मोवाच
अधर्मस्थं शिवो हन्ति सृष्टिस्थितिप्रणाशकृत् । अधर्मस्य शिवः कालो नित्यं संहारहेतुकः ॥५॥ कलियुगे कृतयुगं शिवपादाब्जसेवनात् । अन्नं नराणामाधारो वाहनानां तु पोषणम् ॥ ६॥ अन्नं तत्र दयाहेतु भोगलिङ्ग महीतले । निग्रहानुग्रहे शक्तः स भवेत् पृथिवीपतिः ॥७॥ गृहे वा नगरे ग्रामे आधिपत्यं च दुर्लभम् । किं पुना राज्यलब्धौ तु चाधिपत्यं महीतले ॥ ८॥ राज्यार्थे धार्यते शस्यं शस्यार्थ तु जलाश्रयः। भूमि गपरीक्षार्थ सूत्रधारं परीक्षयेत् ॥९॥ प्रजाहीनो ध्रुवं वत्स राजा दुःखस्य भाजनम् । शेषं भुङ्क्ते महादुःखे विषये स्वेऽपराजित ॥ १०॥ लोको मूलं भूश्च वृक्षश्वाम्भो भूपालरक्षणम् । तेनाक्षयं भवेद्राष्ट्र प्रजावांस्तु चिन्तामणिः ॥ ११ ॥ बहुपुण्यप्रभावेण प्रसन्नः साम्प्रतं शिवः । प्रजास्तु पीडिता येन तद्राष्ट्रं गच्छति क्षयम् ॥ १२॥ अन्यायव्यनिरता न्यायं त्यक्त्वा तु लोभतः।। कुलमूलविनाशार्थ राजा हन्ति प्रजा समाम् ॥ १३ ॥ वसुधायाः प्रजा मूलं धन्यो यस्ता विशेषतः । प्रतिपालयते भूपः सर्वकामफलप्रदः ॥ १४ ॥