________________
वापीकृपतडागादिनिर्णयो नाम चतुःसप्ततितमं सूत्रम् ॥ फलं तस्य दशगुणं प्राप्नोति चैव नित्यशः । नरोत्तमः स चाप्नोति नित्यं वाराणसीफलम् ॥३०॥ तस्य तुलादिकपुण्यं स्थाने वाराणसी भवेत् । धर्मार्थकाममोक्षांश्च यथेच्छं प्राप्नुयान्नरः ॥ ३१॥
इति चतु:कुण्डवायणसी ॥ सरो महासरश्चैव भद्रकं च तृतीयकम् । चतुर्थं यन्मया प्रोक्तं सुभद्राख्यं तदुच्यते ॥ ३२ ॥ परिधं युग्मपरिधं तडागं पडविधं स्मृतम् । बकैकस्थलं परिघं युग्मपरिचं तद् द्वितः ॥ ३३ ॥ अर्धचन्द्रं सर: प्रोक्तं वृत्ताकार महासरः । भद्रकं चतुरनं स्यात् सुभद्रं भवसंशुतम् ॥ ३४॥ दण्डसहस्रक ज्येष्टं मध्यमं च तदर्धकम् । मध्यमार्थ कनिष्ठं च त्रिविधं पालिदैर्ध्यतः ॥ ३५ ॥ पञ्चाशद्धस्तकैज्येष्ठं मध्यमं च तदर्धकम् । कनिष्टं द्वादशकरः पालिमानं च विस्तरे ॥ ३६॥ वापीकूपतडागानि नैकश उदगाश्रयाः । जलाश्रयं च संपाद्य कुर्यात् पुण्यं महोत्सवम् ॥ ३७॥ यस्य गोपदमात्रं तु [दकं धारयेन्मही । वर्षषष्टिसहस्राणि शिवलोकं स गच्छति ॥ ३८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वापीकूपतडागादिनिर्णयाधिकारी नाम चतुःसप्ततितमं सूत्रम् ॥
२४ अ,