________________
१४
अपराजितपृच्छा चतुर्दाराणि सर्वाणि सगवाक्षाणि मध्यतः। गवाक्षमस्तकान्येवं प्रवेशो वामदक्षिणे ।। १४॥ प्रवेशा निर्गमास्तत्र विधातव्या हानेकधा ! कणे चतुष्किका कार्यास्तवङ्गपट्टशालिकाः ॥१५॥ मध्ये भिट्ट तु कर्तव्यं माई च तद्धि श्रीधरम् । तन्मध्ये जलशायी स्याद् वाराहो वा तथोच्यते ॥ १६ ॥ भद्रे चैकादश रुद्राः प्रशस्ता द्वारके तथा। दुर्वाला नारदश्चैव विविधा गणनायकाः ॥ १७ ॥ क्षेत्रपालो भैरवश्च तथा चोमामहेश्वरः । कृष्णशङ्करः कर्तव्यो दण्डपाणिविशेषतः ॥ १८ ॥ कात्यायनी चण्डिका च भल्लस्वामी च भास्करः। हरिहरपितामहश्चन्द्रादित्यपितामहः ॥ १९ ॥ हरिहरस्वर्णगर्भः पट्टशाला वाराणसी। तदनुक्रमं वक्ष्यामि यदुक्तं परमेश्वरैः ।।२०।। चतुर्दशेशलिङ्गानि रुद्राश्चैकादशैव तु । सर्वं च द्वादशादित्या द्वादशाथ गणाधिपाः ॥ २१ ॥ पञ्चलीला नवदुर्गा लोकपालाश्च पञ्चधा। त्रयोऽग्नयश्च दिक्पाला मातृणां च तथाष्टकम् ॥ २२ ॥ अब्धयश्चैव चत्वारो गङ्गा च सरिदुत्तमा। तन्मध्ये तु प्रकर्तव्या वाराणसी पद्मासने ॥ २३ ॥ यञ्च वाराणसीवासे तत्पुण्यं नित्यदर्शनात् । नित्यमेव स्नानपूजा गङ्गास्नानादिकं फलम् ॥ २४ ॥ तस्यार्चने भवेन्मोक्षो यथा गङ्गाजलान्मृतौ । पतन्ति नैव संसारे यावश्चन्द्रार्कतारकम् ॥ २५ ॥ कृते च नैमिषं तीर्थ त्रेतायां पुष्कर तथा । द्वापरे च कुरुक्षेत्रं कलौ गङ्गा प्रशस्यते ॥ २६॥ गङ्गाद्वारे कुशावर्ते विल्वके नीलपर्वते। स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ॥ २७ ॥ गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि । मुच्यतेसर्वपापेभ्यः स्वस्थानेऽपि वसन्नरः ॥ २८ या गतियोगमुक्तानां मुनीनामूर्ध्वरेतसाम् । सा गतिः सर्वभूतानामन्तवैदिनिवासिनाम् ॥ २९ ॥