________________
अपराजितपृच्छा तत्प्राकारमध्यकर्णे गजशालावुभौ मतौ। तस्य बाह्ये गृहमन्यं राजपिण्डपाद्यादिकम् ॥ १६ ॥ आपवत्समरीच्यधै राजवेश्म गृहोत्तमम् । कपिशीर्षयुतश्चैव प्राकारो वास्तुबाह्यतः ॥ १७ ॥ पित्रग्नीशरोगकर्णेष्वट्टालकचतुष्टयम् । महाप्रतोल्या माहेन्द्रे गिरिसंस्था तथोत्तरे ॥ १८ ॥ भास्वतो यमदिग्भागे समस्ता च वलूरिका । राजवेश्मान्तभीगे च वाद्यशाला तथोत्तरा ॥ १९ ॥ वितथे गिरिसंस्थाने रथरन्ध्राणि कारयेत् । गिरौ काष्ठगृहं चैव वितथे चाम्भसां गृहम् ॥ २० ॥ सुग्रीवनन्दिसन्धौ च युद्धद्वारं पगलखम् । असुरशेषसन्धौ च द्वारमभोगृहैर्युतम् ॥ २१ ॥ सुग्रीवपुष्पदन्तयोर्वरुणासुरयोस्तथा।। अश्वशाला द्वादशैव कर्तव्याश्च शुभोत्तमाः ॥ २२ ॥ अर्धे तवङ्गनिष्कास ? सैन्यविस्तरविस्ततम । प्राकारसमुत्सेधानि त्रिमाडानि तदूर्ध्वतः ॥ २३ ॥ कार्य दौवारिके भिट्ट गजस्कन्धसमोच्छ्रितम् । द्वाराने तु भवेन्माडं मल्लैरने तु युध्यते ॥ २४ ॥ पूर्वापरद्वारद्वयं द्वात्रिंशत्स्तम्भभूषितम् । तबृत्तमाडं वृत्तं तु पञ्चविंशतिभिः करैः ॥२५॥ स्तम्भे स्तम्भे पताका च द्विजालोककलोद्भवम । रक्तपुष्पसमाकीर्ण द्वारिक चतुरङ्गलम् ॥ २६ ॥ खड्गविद्याविज्ञयुद्धं छुरिकायुद्धमुत्तमम् । तथैव मल्लयुद्धं च गात्रभङ्गैरनेकधा ॥ २७ ॥ निरीक्ष्यते यतः सर्व खड्गाद्यायोधनं तथा। एवं युद्धोद्भवा राजप्रासादे च महोत्सवाः ।। २८ ॥ नियन्त्रितोभयद्वारं माडं रश्माक्ष्यमुन्नतम् । भिट्टे वापरद्वाराणि कार्याणि चासुरोन्मुखम् ॥ २९ ॥ बाह्यदेवपतिमध्ये राजधेश्मान्तमार्गतः । मुख्यभल्लाटसौम्येषु गजशालपतिद्धयम् ॥ ३० ॥ याम्योत्तरमुखं कार्य प्रशस्तं सर्वकामदम् । सौम्यान्ते हस्तिन वेश्म तद्वारमपरोन्मुखम् ॥ ३१ ॥