________________
अपराजितपृच्छा सीमा करसहस्रं तु आयामो विस्तर: समः । चतुःषष्टिपदं कुर्याद् ब्रह्मरन्ध्रप्रमाणतः ॥ १६ ॥ चतुर्मुखं चतुरिं चतुर्वक्त्रं पितामहम् ।। कुर्यात्नगरकेन्द्रे च प्रासादं कमलोद्भवम् ॥ १७ ॥ चतुरो वरुणाद्यांश्च चतुर्दिक्षु यथाक्रमम् । महास्थानेषु चत्वाराश्चतु:कर्णेषु संस्थिताः ॥ १८॥ सीमान्तेषु च सर्वेषु चतुःषष्टयादिसाधिते । प्राकार उत्तमः कार्यों नवहस्तैः समुच्छ्रितः ॥ १९ ॥ द्विहस्तोच्छिता च कार्या त्रिगूढा कण्डवारणी । तनुल्योदयमाना कपिशीर्घनाकुला ॥ २० ॥ कणे कणे तु कर्त्तव्या वृत्ताहालकशोभना । (त्रि)सहस्रान्ते पुनः कुर्याद्योधविद्याधरी तथा ॥ २१॥ तत्तद्भागप्रमाणेन कुर्यात् सिंहावलोकनम् । प्रतोलीनां तु चत्वारि चक्रद्वाराणि कल्पयेत् ॥ २२॥ अष्टौ खटक्या द्वाराणि प्रशस्तानि शुभानि च । खटक्की सर्वद्वारेषु कुर्यात् सोपानसंचयम् ॥ २३ ॥ रथमार्णोद्भवं शस्तं प्रतोलीषु प्रवेशनम्। कपाटा: सर्वद्वारेषु दृढार्गलयुतास्तथा ॥२४॥ विस्वाद्विपेपुरा सर्वमाशातं सांशुभः निद्वौ ?। प्रोक्तस्तम्भो ध्वजास्तम्भः कीर्तिस्तंभो महान्तथा ॥ २५ ॥ पविधं तद्धः पीठं मालिकास्त्वेकविंशतिः । तन्मध्ये देवताः सर्वे स्वर्गपातालवासिनः ॥ २६ ॥ मेरुच्छन्दभवः स्तम्भो ब्रह्माण्डसदृशः पुरः। तदुपरि शिवमूर्तिः शक्तित्रिज्योतीरूपिणी ॥ २७ ॥ मेरुच्छन्दः समाख्यातः विभागान् शणु साम्प्रतम् । चतुरवं समं कृत्वा तारकं पीठमुत्तमम् ॥ २८ ॥ उक्ताश्च चतुरशीतिः कीर्तिस्तम्भा विभागशः। समस्ता उत्सेधभागाः शतमष्टोत्तरं स्मृताः ॥ २९ ॥ तेन भागप्रमाणेन विस्तार: स्याश्चतुर्दश। तत्वभार्गश्च भद्रार्धं कर्णश्चैव द्विभागकः ॥ ३०॥ पूर्वभद्रे भवेद् ब्रह्मा दक्षिणे तु जनार्दनः। अनन्त: पश्चिमे भद्रे रुद्रश्चोत्तरतो दिशि ॥ ३१ ॥ कोणे भद्रे तथा स्तम्भे सप्तभागसमुच्छ्रिते ।। महाराङ्गाणि चाटैव मेघाकायणि तानि च ॥३२॥