________________
(७०) भूधरा दिब्रह्मनगरं सप्ततितम सूत्रम् ॥
विश्वोकर्मोवाच
गृहाणि नृपदेवानां स्वर्गपातालयासिनाम् । ब्राह्मणानां हितार्थाय नगरं वच्मि संप्रति ॥ १ ॥ भूधरं हेमकूटं च रत्नकूटं तृतीयकम् । त्रिषु लोकेषु विख्यातं पूज्यं सुरनरोरगैः ॥ २ ॥ सहस्ररधर्म हस्तेमध्यं सार्धसहस्रकैः। द्विसहस्रैर्भवेज्जयेष्ठं त्रिविधं हस्तसङ्ख्यया ॥ ३ ॥ कनिष्ठं चाप्रभागेश्च मध्यं च दशभागतः। ज्येष्ठं द्विरटभागैश्च पदसङ्ख्या निधोदिता ॥४॥ चतुःषष्टिः कनिष्ठं च शतं मानं तु मध्यमम् । द्विशतं तु भवेच्छ्रेष्ठं षट्पञ्चाशत्पदायतम् ॥ ५ ॥ द्वात्रिंशद्धस्तमधमं द्विचत्वारिंशद्भिर्मध्यम् । ज्येष्ठं द्विपञ्चाशद्धस्तं गृहाणां तु प्रमाणत: ॥ ६ ॥ कनिष्ठं पञ्चशतकं मध्यं सार्धसप्तशतम् । सहन तु भवज्ज्येष्ठं गृहसङ्ख्या यथाक्रमात् ॥ ७ ॥ कनिष्ठे नवमार्गाश्च मध्यमे च त्रयोदश।। कुर्याज्ज्येष्ठे सप्तदश मार्गसङ्ख्या प्रकीर्तिता ॥ ८॥ एकद्वित्रिक्रमात्प्रोक्ताश्छन्दाश्च विबुधैर्युताः । मर्त्यलोकेषु सम्प्राप्ताः स्वर्गपातालभूषणाः ॥९॥ चतुरश्रं समं क्षेत्रमायव्ययविशोधितम् । आदिगर्भ प्रकुर्वीत भुजकर्णविशोधितम् ॥ १० ॥ भाजयेदष्टभागस्तु आयामं विस्तरं समम् । एकांशं च त्रिधा कृत्वा चोभयोश्च समन्ततः ॥ ११ ॥ मध्यकोष्ठं परित्यज्य अष्टसमैश्च जायते ? । पूर्वापरे च द्वाराणां याम्यकौबेरसंस्थितौ ? ॥ १२ ॥ सर्वेषामीदृशं छन्दश्चतुःषष्टिपदेषु च। ब्रह्मस्थाने गृहाश्चैव पादानां च चतुष्टये ॥ १३॥ गृहाणां गहसङ्ख्या च द्वात्रिंशद्भिः करैर्मता । ब्रह्मवंशयोईयोश्च चतुर्थाशकराः स्मृताः ॥ १४ ॥ चत्वरे द्वादशमार्गाश्वत्वरे षोडशान्विताः। नवमार्गकृता सङ्ख्या निर्मिता विश्वकर्मणा ॥ १५॥