________________
१७४
भूधरादिब्रह्मनगराधिकारों नाम सप्ततितम सूत्रम् ॥ सार्धं भागं तु परिधौ त्यजेच्छृङ्गक्रमेण वै। तदूवें दशभागा च इल्लका तौरणैर्युता ॥ ३३ ॥ कोणे भद्रे तथा शङ्गे यक्षगन्धर्वपन्नगाः । भवन्ति ते स्वेच्छया च देवा वा दैत्यदानवाः ॥ ३४॥ परिधौ मत्स्यादिदेवाश्च तथैकादशरुद्रकाः। शिवशक्तयोऽनेकाश्च रूपभेदेन संस्थिताः ॥ ३५॥ सागराः पर्वता द्वीप समस्ता भोगरूपका । समुद्रशैलवसना पृथ्वी च सप्तमातरः ॥ ३६ ॥ भूपालाश्च तथा कल्पवृक्षाश्च मुनिसत्तमाः । वायुश्च सूर्यचन्द्राद्याः सनक्षत्राः सराशयः ॥ ३७॥ इन्द्रो रुद्रस्तथोपेन्द्रो ब्रह्मा विष्णुस्तथैव च । शैलेयी ----शंकरश्च सदाशिवः ॥ ३८ ॥ शान्ता- -शान्तातीता याति योत्परती तव । तापर तस्वपेता काच तस्योपरि ? ॥ ३९ ॥ पूर्वद्वारे ध्वजस्थान कीर्तिस्तम्भ तथोत्तमम् । तदूर्ध्वं च प्रतिष्ठाप्या कीर्तिहस्तपताकिका ॥४०॥ शिलोलूखलयन्त्राणि शय्यासनानि पट्टकाः । नित्यकर्मस्नानस्थानं सन्ध्यावन्दनकुण्डिकाः॥४१॥ सर्व गृहोपस्करं च आयसं काटकादिकम् । द्विजदेवेषु दातव्यमात्मार्थे तु सनन्दनम् ॥ ४२ ॥ भूमिदानं गजाश्वाश्च देशा ग्रामं च पत्तनम् । मयूरलाक्षाभिच्छन्नं हेमरत्नादिभूषणम् ॥४३॥ पूजयेत्तपत्नीकान् विप्रान् पूर्व देषु पूजिताः ? । इन्द्रतुल्योद्भवं राज्यं स्वर्गे वा भूभिशासने ॥४४॥ क्रमोऽयमत्र विप्राणां कथयामि द्विजोत्तम । वंशावंशेस्तदेवा ? इन्द्राद्या ईशकोणतः॥४५॥ विष्णुदेवधान्याविप्रा पूर्वदेशे तां स्थापयेत् ? । जिगमं पूजयन्ति विप्रा दक्षिणा दिशं द्विजोत्तमाः ॥ ४६ । नैर्ऋत्यां दिशि पितुंश्च प्रावृषे पौरुषं तथा। उत्तरे पुनराचार्य ईशं च प्रतिपूजयेत् ? ॥ ४७॥ कनिष्ठं च समाख्यातं नगरं नाम भूधरम् । देवलोकेषु विख्यातं पूज्यं सुरनरोरगैः ॥४८॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायो
भूधरादिब्रह्मनगराधिकारो नाम सप्ततितम सूत्रम् ॥