________________
गृहोत्पत्तिहादिराजप्रासादनिर्णयो नामैकोनसप्ततितम सूत्रम् ॥ पाण्डुच्छन्दस्तथाचैव भूम्यूचं शैलजाश्रितः। षण्णां तु छन्दसां प्रोक्तः सृष्टिकाले समुद्भवः ॥ १६ ॥ एकभौमं द्विभौमं वा हय स्याद्वा त्रिभौमकम् । पट्टच्छन्दादिका भेदा हादिवेश्मसंज्ञकाः ॥ १७ ॥ शालालिन्दक्रमच्छन्दे भेदा भिन्नास्तु षोडश । चतुरुत्तरशतानि होकशालप्रकारकाः ॥ १८ ॥ गुणितास्ते दशशतैर्लक्षमेकमतः परम् । चत्वारि च सहस्त्राणि एकशालादिषु कमात् ॥ १९॥ पट्टच्छन्दे यथा भेदा: शालालिन्दादितस्तथा । विपरीतास्तृणच्छन्दे षोडशैव प्रकीर्तिताः ॥ २० ॥ वाजिच्छन्दोऽधिकोच्छ्रायः पाण्डुहीनोदयात्मकः । चतुर्हस्तं फलकान्ते शेषच्छन्दाः प्रशंसिताः ॥ २१ ॥ द्विपञ्चाशद् द्विशालानां प्रत्येक द्विसहस्रतः । स चतु:सहस्र लक्ष द्विशालानां प्रकीर्तितम् ॥ २२॥ द्विसप्ततित्रिशालानां प्रत्येकं त्रिसहस्रतः। लक्षद्वयं त्रिशालानां तथा द्वयष्टसहस्रकम् ॥ २३ ॥ चतुःशालगृहाणां षट्पञ्चाशच्च शतद्वयम् । प्रत्येकं चतु:सहस्त्रगुणितं च भवेदिदम् ॥ २४ ॥ चतुर्विंशतिसहस्रोत्तरं च दशलक्षकम् । चतुःशालकभेदे तु हाणि च भवन्ति हि ॥ २५ ॥ चतुर्दशलक्षाण्यष्चत्वारिंशत्सहनतः। मेरुसङ्ख्या तथा चेत्थं हादिगहेषु च ॥ २६ ॥ तत्राष्ट्राष्टगता भेदा एकैकस्य तथैव च । कोटिः पञ्चदशलक्षा वेदाशीतिसहस्रकम् ॥ २७ ॥ एवं हादिगृहाणां मेरुच्छन्दात् समुद्भवः । इषुच्छन्दोद्भवाश्चान्ये तत्तुल्याश्चैव सङ्ख्यया ।। २८ ॥ इत्युक्तं हादिवेश्म प्रासादानामतः परम् । प्रासादा देवभूपानामन्येषां हर्म्यमुच्यते ॥ २९॥ माडश्च मोड: शुद्धश्च शिखरं च चतुर्थकम् । तुङ्गार: सिंहकश्चैव षड् भेदा राजवेश्मनाम् ॥ ३० ॥ छाद्यघण्टाकूटमांडो मौडश्चोर्ध्ववरण्डिकः । वरण्डिकाः सर्वभूषु शुद्धो बाह्यचतुष्कतः ॥ ३१ ।। माडच्छन्दोद्भवे भद्रे भूमिशङ्गाणि सन्ति चेत् । तच मोडाभिधानं स्यात प्रशस्तं राजवेश्मनि ।। ३२ ।।