________________
(६९) गृहोत्पत्तिहादिराजप्रासादनिर्णयो नामैकोनसप्ततितमं मूत्रम्॥
विश्वकर्मोवाच
अथेदानी प्रवक्ष्यामि गृहस्योत्पत्तिलक्षणम् । उत्पद्यते यथात्वाद्यं गहादीनां तु सम्भवम् ॥ १॥ आचार्यैर्दिव्यशानश्च पूर्वानतपद्मासनैः । षडिका (घटिका ?) याम्यहस्तेषु त्रिपातहस्तोधृता? ॥२॥ षडिका संस्थिता पृथ्वी तत्र नाद्यबिन्दुद्भवाः ? । बिन्दूलया शिखा शेया सा सृष्टिश्चैवमुद्भवः ? ॥ ३ ॥ बिन्दु वामा कृता रेखा वामावर्ते पूर्वोदिताः । पूर्वापरगतास्त्वेवं सृष्टिसंशाविधानकम् ? ॥ ४॥ ऐशान्या अग्निपर्यन्तमाश्रमं वस्तुसम्भवम् । आश्रयन्ति समस्ताश्च जीवा महितचेतसः॥५॥ आग्नेयां निर्कतिर्यावत् सदा सृष्टिविनश्यति । इत्थमालयसंशा स्यात् सृष्टितोऽयं समुद्भवः ॥ ६॥ आलयः सर्वसत्त्वानां सर्वभूतात्मनां हितः। तदेवं लीयते सर्वमालयादिसमुद्भवम् ॥ ७ ॥ नैर्ऋत्यनिलसंभूता सष्टिस्त्वेवं समुद्गता । कोष्टकाभिधानमेतत् चतुरधीकृतं शुभम् ॥ ८॥ आच्छादितं तथा चोर्ध्वं तश्च कोष्ठाभिधानकम् । कोष्ठकं चतुर्हस्तान्तमाच्छायं छाद्य विदुः ॥९॥ आच्छाद्यं तु यदा क्षेत्रमेकहस्ताच्छतार्धतः । आवेष्टितं खलीपाट फलकं स्यात् गृहाङ्गणम् ॥ १०॥ एकद्वित्रिसहस्रैश्च हस्तैर्मानसमन्वितम् । नगरेषु तथावेष्टकूटप्राकारसंज्ञितम् ॥११॥ चतुर्हस्तादितः क्षेत्रं शिरश्छाद्यं समोदये । पूर्वे चैकद्वारयुतं गृहसंशं तदुच्यते ॥ १२ ।। एकद्वारं भवेदवेश्म पूर्वापरद्वार निलयः । त्रिद्वारं करणं प्रोक्तं चतुर्भिश्चातुरं भवेत् ॥ १३ ॥ षड़जात्युत्पन्नच्छन्दा भैदैभिन्ना द्विरभिः । इत्युक्तक्रमरूपाढ्या गृहस-ख्या वनेकधा ॥ १४ ॥ तुणपट्टौ छादने स्त: वाजिच्छन्दः शिलामयः। खण्डच्छन्दो गृहमध्ये पूर्णच्छन्दो डधोगृहम् ॥ १५ ॥
२२ अ.