________________
अपराजितपृच्छा मेरुश्च खण्डमेरुश्च पताका सूचिका तथा । उद्दिष्टं नष्टमिति षट् छन्दांसीह प्रचक्षते ॥ ३१ ॥ मृत्युभीतैः पुरा देवैरात्मनश्छन्दनायकः। .. संस्मृतानीह छन्दांसि छादितस्तैस्ततो महा: ? ॥ ३२॥ . छन्दे छन्दं समुद्दिष्टं वाससी कृतिरेव च । छन्दोभिरावृतं सर्व वन्द्यं सर्वत्र नान्यथा ॥ ३३ ॥ व्योम्नः पतते बिन्दु?पतितो सबिन्दुगर्भतो भवेत् । गुरुर्लधुर्लतायाश्च तस्य वाष्टौ समुद्भवाः ॥ ३४ ॥ आद्यगुरोरधोहस्वं पुनः शेषं यथोपरि । अभिः पूरयेत् पश्चाद् यावत् सर्वहतं पदम् ॥ ३५ ॥ गुरोरधस्ताच्च गुरुं निधाय शेष समानं परिलक्ष्य सम्यक् । खण्डं प्रकुर्याद् गुरुपूरणार्थ यावत्पदं सर्वलघुस्थमेते ॥ ३६॥ भवन्ति प्रस्तारगताश्च एते षट् सप्तमप्रित्यय वै गृहाणाम् ? ये नैव जानन्ति गुरूपदिष्टान् ते सूत्रधारा रिपव: प्रजानाम् ॥ ३७ ॥ एकाद्यकोत्तरान कोष्ठान विन्यसेदिच्छयात्मनः। आद्यादारभ्य तद्धिर्यथास्यात्पार्श्वयोः समम् ॥ ३८ ॥ मेरोरेकाधिका संख्या शरावस्येव चाकृतिः । प्रथमे कोष्ठके रूपमन्तं यावच्च पार्श्वयोः ॥ ३९ ।। आसनोर्चस्थयोन्यस्येन्मध्ये सङ्कलितं पृथक् । तस्मिन्निष्टविकल्पानां सङ्ख्या स्यादन्त्यपङ्किगा ॥४०॥
इति मेरु छन्दः॥ खण्डमेरंतु विन्यस्येत् तद्वदेवैकपार्श्वतः। प्रवृद्धैः कोष्ठकैस्तत्राप्यङ्काः प्राग्वत् फलं यथा ॥ ४१॥ अथापर: खण्डमेरु कोष्ठांस्तवेष्टसङ्ख्यया। कृत्वैकापचितान् वामविभगापचितानधः ॥ ४२ ॥ एकाद्यकोत्तरानानाद्यपतो निवेशयेत् । अन्यासु पङ्किव्वाप्रान्तं शून्यानाद्येषु कल्पयेत् ॥ ४३ ॥ द्वितीयेषु च कोष्ठेषु तासामेकैक ? साधयेत् । द्वितीयायां तृतीयादिकोष्ठकेषु यथाक्रमम् ॥ ४४ ॥ विकर्णयोगजानन्यानूर्वाधोयोगसम्भवान् । फलं विकर्णयोगोत्थमेकस्मिन् परिकल्पयेत् ॥ ४॥
इति खण्डमेरु॥