________________
अपराजितपृच्छा गूढो नृत्यश्चद्रालोको भद्रावलोकनादिकाः। चतुःषष्टिः समाख्याता मण्डपा मेरुछन्दतः ॥१५॥ पद्मनाभिसभामार्गमन्दारभिन्नमिश्रकम् । षड्विधं च वितानं स्यान् मेरुच्छन्दादुहाहृतम् ॥ १६ ।। कर्णजा भ्रमजाश्चैव भद्रजा गर्भजास्तथा । मध्यजाः पार्श्वजा: ख्याताः शालाश्च मेरुच्छन्दतः ।। १७ ॥ वेदीबन्धं श्रीबन्धाख्यं पङ्कजं भद्रकं तथा । सुभद्रं तारकं पीठं मेरुच्छन्दोविनिर्गतम् ॥ १८ ॥ सुरार्चितं चायनादि स्वभु बाणं चतुर्थकम् । शक्त्याख्यं वर्धमानं च लिङ्ग मेरुविनिःसृतम् ॥ १९ ॥ वेदाधा वर्तुलाख्या त्रिकोणा तु षडंशका । वेदिका पनिका चैव पीठिका मेरुच्छन्दतः ॥ २०॥ सीमा गर्भस्तथा द्वारं तलकोविभक्तिकम् । अर्चा च षड्विधा प्रोक्ता मेरुच्छन्दसमुद्भवा ॥ २१ ॥ नगरं च पुरं ग्रामः खेटः कूटश्च कटः ।। एते च षड्विधा ज्ञेया मेरुच्छन्दविनिर्गताः ।। २२ ॥ वापीकूपतडागं च रथयन्त्रचक्रादिकम् । प्रयुक्तं मेरुच्छन्देषु वास्तुविद्भिरुदाहृतम् ॥ २३ ॥ वेदीसिंहासनं छत्रं शय्याकवचमायुधम् । वास्तुवेदे समाख्यातं मेरुच्छन्दसमुद्भवम् ॥ २४ ॥ रथवीभ्यन्तरमार्गाश्च षट् पन्थान एव च । प्रयुक्ता वास्तुविद्भिश्च मेरुच्छन्दसमुद्भवाः ।। २५ ॥
इति छन्दादिनिकाशसख्याधिकारः ॥ पृथ्व्याकारो यथा छन्दो मेर्वाकारसमुद्भवः। षड्विधं मेरुच्छन्दश्च षट्त्रिंशच्छन्दभेदकाः ॥२६॥ भेदैस्तत्र ध्यष्टशतैर्दशभिर्गुणितैस्ततः । चतुर्विंशत्सहस्राणि छन्दभेदाश्च सङ्ख्यया ॥ २७ ॥ इन्द्रोद्भवक्षमावृद्धी भूतकोणान्तमध्यमैः ? । इषु प्राणेषु भक्षन्ती प्रत्येकविषमेपदम् ? ॥ २८ ॥ षडिनभशद्वैः कोटिमरुच्छन्दे तु सङ्ख्यया। तत्रोकमेवप्रमाणं सृष्टाऽम्भोजप्रकाशिना ॥ २९ ॥ मेरुमैरूपमः कार्यः शरावस्येव चाकृतिः । सृष्टिस्तदुद्भवा सूत्र पात्रे पात्रमिवापरम् ॥ ३०॥