________________
(६८) गृहप्रासादसंभूतच्छन्दभेदो नामाष्टषष्टितमं सूत्रम् ॥
अपराजित उवाच
छन्दश्च कथितं देव सर्वशास्त्राद्यसंभवम् । अन्यत्र छन्दभेदांश्च कथयस्व परेश्वर ॥ १॥ गृहप्रासादसम्भूताश्छन्दाः षसंज्ञकाः स्मृताः । कथयस्व प्रसादेन तेषां निर्णयमादितः ॥२॥ मेरुश्च खण्डमेरुश्च पताका सूचिका तथा । उद्दिष्टं नष्टमित्युक्ताश्छन्दाः षधसम्मिताः ॥ ३॥ एषां प्रस्तारसन्दोहं मम भ्रान्तिहरं परम् ।
स्वत्प्रसादेन देवेश छन्दशास्त्रसमुद्भवम् ॥ ४॥ विश्वकर्मोवाच
प्रोक्ता भेदाश्छन्दसां षट् रिपुरान्तवेदोद्भवाः १ । भेदे शून्यं त्रयशून्यं वेदाशू उपाङ्गवध्रकशवः ? ॥५॥ खशून्या भवेदमुक्ता सङ्ख्यामिति छन्दोद्भवा ?। प्रयुक्तशालछन्देषु भेदाश्च षड्विधाः क्रमात् ॥ ६॥ लक्षणालङ्कारयुता भिन्ना अर्थार्थतस्तथा। भिन्नास्तथैकाक्षरत इत्थं छन्दसमुद्भवः ॥ ७ ॥ श्रुतिस्मृतिपुराणानि मन्त्रमुद्राक्षराणि च।। मेरुच्छन्दसमुत्पन्नमाब्रह्मभुवनान्तकम् ॥ ८॥ माडमोडशुद्धशङ्गतुङ्गारसिंहकादिकाः। प्रोक्ता च राजवेश्मादौ मेरुच्छन्दसमुद्भवाः ॥९॥ आनकणाभि संघाटा ? गृहमालाकूटपञ्जरम् । संभूता मेरुछन्दाञ्च गृहा हादिसंज्ञकाः ॥ १० ॥ तणपट्टवाजिपूर्णखण्डपाण्डव एव च । प्रयुक्ता मेरुच्छन्दादौ वास्तुविद्भिदाहृताः ॥ ११ ।। लतिना नागरा भौमा द्राविडाश्च विराटकाः । सावधारा विमानाख्या मेरुच्छन्दसमुद्भवाः ॥ १२ ।। स्तम्भगर्भतीर्यमाना खण्डा वेणुकलादिकम् ? । मेरुच्छन्दोद्भवा रेखा: प्रोक्ताश्च सुरवेश्मनाम् ॥ १३ ।। तथैकत्रिपञ्चसप्तनवशाखसमुद्भवम् । प्रयुक्त द्वारविधानं वास्तुपदेशका विदुः॥ १४ ॥