________________
अपराजितपृच्छा निबन्धः पञ्चविंशत्या गोविन्दश्च षड्विंशत्या । सप्तविंशतिभिर्मुक्ताफलेल्थं वृत्तकानि च ॥३०॥ मयो रसौ तजौ भो नो गणाश्चाष्टौ लघुर्गुरुः । छन्दस्सुदशकं चेति प्रोक्तं वै शास्त्रकौशलैः ॥ ३१ ॥ समाक्षरपदं वृत्तं यत्तच्छुद्धसमं भवेत् । असमाक्षरपादं च भवेद् विषमसंशकम् ॥ ३२ ॥ समपादं तु पूर्वार्द्धमुत्तरार्द्ध च वृद्धिगम् ।। समविषमं तु तन्नाम अन्तपादोऽधिको भवेत् ॥ ३३ ॥ पूर्वार्दै च भवेद् वृद्धिः समवच्चोत्तरं समम् । पूर्ववश्चान्यविषमं विषमविषमं च तत् ॥३४॥ आदिस्तृतीयो विषमां द्वितीयो वा चतुर्थकः । एकवर्णगतावेवं सम्पुटं च.दिशन्ति तत् ॥ ३५ ॥ अष्टाविंशत्यक्षरतः सप्तत्रिंशत्तथान्ततः। भवत्यक्षरवृद्धया तद् गद्यानां दशकं तथा ॥३६॥ यदा वृत्तेषु पूर्वार्द्धमुत्तरार्द्धसमं न हि । आर्याभिधानकं तश्च भिन्नं वृत्तं च पादतः ॥ ३७ ।। कलिकाये च नवमं मुक्ताफलकमन्ततः । स्यक्त्वा समानाक्षराणि शेषवृत्तानि सन्ति च ॥ ३८॥ एतानि वर्णवृत्तानि मात्रावृत्तं तु शेषकम् । द्विमात्रको गुरू ज्ञेय एकमात्रो लधुर्भवेत् ॥ ३९ ॥ सानुस्वारो विसर्गान्तो दीघों युक्तः परश्च यः । गुरुवा तु पदान्तस्थो द्विमात्रश्च लघुस्तथा ॥ ४० ॥ गुरोलघुगता मात्रा सूर्यभेदसमुद्भवा । एवं छन्दोगणा; प्रोक्ता विज्ञेया: शास्त्रकोविदः ॥ ४१ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायो
शास्त्रच्छन्दनिर्णयाधिकारो नाम सप्तषष्टितमं सूत्रम् ।।