________________
१६३
शास्त्रच्छन्दनिर्णयो नाम सप्तषष्टितमं सूत्रम् ।। शान्तिः कर्णश्च संपात: सिंहो बाणश्च पल्लवः । कर्णकारः शुक्रः शङस्तथाधर्मों गुणा दश ॥ १४ ।। जयमाला तथा नन्दा मेघा च सिंहगर्जना । तथा कल्लोलतरङ्गा रत्नावली पुष्पोगिरा ॥१५॥ पत्रोद्भवा अत्युद्भुता अतिच्छन्दा दशोदिताः । एते दशाभिधानाश्च विषमा वाद्यकन्दतः ? ॥ १६ ॥ शान्ताद्भता मुख्या सौम्या रम्या च रमणी पुरा । मुखोद्गीर्णा चपलाख्या भैरवी भुवनोत्तमा ॥ १७ ॥ शुङ्गारी हास्यकरणी तिलकारा पद्मोद्भवा । विकारास्या प्रशावती प्रबला वीरसम्भवा ॥१८॥ प्रकारणाक्षसभतिर्विकास्याथ प्रभामला। चतुर्विंशतिरार्याणां छन्दसां च समुद्भवाः ॥ १९ ॥ प्रकरणसूत्रसन्धिपरिच्छेदाध्यायास्तथा । अडकाण्डलगखण्डवर्गाद्या ग्रन्थसम्भवाः ॥ २० ॥ स्वयंभूक्तं तलकीर्ण शान्ते च मनुमन्दिरः । प्रभामणिश्च हादश्च ह्यङ्गाष्टकमुदाहृतम् ॥ २१॥ एकाक्षरपदं चैव वृत्तं वेदाक्षरं भवेत् । चतुरक्षरपादं तु वृत्तं वै षोडशाक्षरम् ॥ २२॥ कलिकासंशकं वृत्तं षोडशाक्षरमुच्यते ।। चतुरक्षरपादस्याष्टाक्षराण्यर्धसंज्ञकम् ॥ २३ ॥ पञ्चाक्षरं विकास्याख्यं तदर्धे तु दशाक्षरम् । विंशत्यक्षरवृत्तं च विकास्याभिधमुच्यते ॥ २४॥ पदं षड्रिक्षरैश्च वृत्तं वज्रकमुच्यते । कुमारलतिका सप्तभिरष्टभिरनुष्टुपः ॥ २५॥ नवाक्षरैरक्षमं च प्रणम्यं च दशाक्षरैः । उपेन्द्रवज्रेकादशाक्षरैर्द्वादशभिर्जलम् ॥ २६ ॥ प्रयोदश कर्णराज्यं वसन्ततिलकेन्द्रतः। मालिनी पञ्चदशत: षोडशतिलगर्जितम् ॥ २७ ॥ अद्भतं सप्तदशभिगिरिरष्टादशाक्षरैः। शार्दूलादि दिगश्च विंशत्याश्चातिवृत्तकम् ॥ २८॥ स्रग्धरा चैकविंशत्या मदना द्वाविंशतिभिः । प्रयोविंशत्या मदन-लता मधुकरोऽर्कयोः ॥ २९ ॥