________________
१६१
व्ययांशकताराग्रहजीवमृत्युसर्वबलं नाम षट्षष्टितम सूत्रम् ॥ अप्सु चादभिर्भवेन्मृत्युस्तेजस्यग्निबलं भवेत् । वायुर्वायुकरो देहे त्वाकाशे शून्यता भवेत् ॥ ४५ ॥ धनधान्येषु नष्टेषु देहः पतति जर्जरः । इत्थं मृत्युः प्रभवति पञ्चतत्त्वविनाशतः ॥ ४६॥ आयव्ययांशनक्षत्रं ताराचन्द्रमैत्र्यादिकम् । प्रोतिरायुश्च मृत्युश्च चिरं नन्दति चेच्छुभाः ॥४७॥ त्रिभिः श्रेष्ठस्तु श्रेष्ठं स्यात् पञ्चभिश्चोत्तमोत्तमम् । सप्तभिः सर्वकल्याणं नवभिर्जयसंपदा ॥४८॥ न षट्काष्टकं त्रिकोणं द्वादशी द्वितीयाष्टमी । न चाटद्वादशे शशी तारा त्रिपञ्चसप्तमी ॥ ४९॥ न द्वितीयांशकं कुर्यात् तथा चाष्टममायकम् । न पृष्ठतस्तथा चन्द्रं नववास्तुककर्मणि ॥५०॥ नाधिकस्तुव्यय: कार्यों न वेग विमलाग्रहा ? | न स्वकुल अतिरिष्टं ? न राशिवर्णबाह्यतः ॥५१॥ पदे पूज्या: स्थिताः सर्वे हिंसन्ति त्वपदे स्थिताः । ग्रहा गावस्तथा विप्राः शापानुग्रहकारकाः ॥५२॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां व्ययांशकताराग्रहजीवमृत्युसर्वबलाधिकारो नाम घट्षष्टितमं सूत्रम् ।।