________________
१६०
अपराजितपृच्छा त्र्यक्षराणि त्रिभेदाश्च त्रिदेवास्त्रिहुताशनाः । त्रय: कालास्त्रिसन्ध्याश्च रजःसत्वतमस्त्रयम् ॥ ३०॥ प्रमाणत्रयमेवं च ज्येष्ठमध्याधमैः क्रमात् । त्र्यंशकं तु समानीय वास्तुवेदभवं ततः ॥ ३१ ॥
इत्यंशकाधिकारः॥ गणयेत्स्वामिनक्षत्राद्यावदक्षं गृहस्य च । नवभिस्तु हरेद् भागं शेषास्ताराः प्रकीर्तिताः ॥ ३२॥ शान्ता मनोहरा ऋरा विजया कलिका तथा। पद्मिनी राक्षसी वीरा ह्यानन्दा नवमी स्मृता ॥ ३३॥ शान्ता शान्तिकरी नित्यं मनोहलादा मनोहरा । क्रूरा प्रवर्जिता प्राज्ञैश्चौराग्यादिभयंकरी ॥ ३४ ॥ विजया जयकल्याणा कलिका कलहप्रदा । पद्मया प्राप्यते सौख्यं महत्तीर्थफलं तथा ॥ ३५॥ राक्षसी च तथा घोरा निशायां भयदायिनी । वीरा सौम्या भोगदा च ह्यानन्दानन्दकारिणी ॥ ३६ ॥ एवं नवविधाकाग निराकारा हि तारकाः । क्षीणश्चन्द्रो यदा वारे भवेत्तारा बलप्रदा ॥ ३७ ॥ क्रूरा च कलिका चैव राक्षसी तु तृतीयका । फराद्या इति वै तिम्रो वर्जयेच्छुभकर्मसु ॥ ३८ ॥ शान्ता मनोहरा चैव विजया पद्मिनी तथा । वीरा नन्देति षट्तारा नित्यं कल्याणकारिकाः ॥ ३९ ॥
इतिताराधिकारः॥ करराशिहतोस्था ये भागैर्हृष्टं तथोऽष्टभिः । आधिपत्यं भवेच्छेषं नाम्ना च सदृशं फलम् ॥ ४०॥ वित्तत्य ? कनकश्चैव धूम्रको विजयः स्वरः। बिडालविजयौचैव दन्तः कान्तस्तथा मृगः ॥४१ ।। विषमआया भवेत्सप्त आयहीना व्ययाः शुभाः। आधिपत्यं समं शान्तं शुभदं सर्वदा नृणाम् ।। ४२ ॥
इत्याधिपत्यम् ॥ अष्टभिश्च हते क्षेत्रे फले षष्टिविभाजिते। लब्धे दशगुणे जीवो मृत्यु भूतभाजिते ॥ ४३ ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पञ्च तत्वानि प्रोक्तानि विभक्तानि स्युरन्तके ॥ ४४ ॥