________________
१५९
व्ययांशकतारामहजीवमृत्युसर्वबलं नाम षट्षष्टितमं सूत्रम् ॥ विभवो ध्वाङसंस्थाने शिल्पिनां हितकामदः । सूत्रशास्त्रार्थसम्पन्ना भोगशृङ्गारनिश्चला: ॥ १५ ॥ सर्वेषु शान्त आयेषु प्रशस्त; सर्वकामदः । षट्सु सिंहादिषु शुभः पौरो धूमध्वजौ विना ॥ १६ ॥ ध्वजे धूमे तथा सिंह प्रद्योतादीन विवर्जयेत् । शेषाणां सुप्रशस्ताश्च तथा स्थानेषु पञ्चसु ॥ १७ ॥ खरे वृषे श्रियानन्दो गजे ध्वाले च शोभनः । मनोहरं त्यजेत्सोऽथ खरे ध्वाङ्गे गजे शुभः ॥ १८ ॥ श्रीवत्सश्च गजे ध्वाले विभवो ध्वाङ्गके शुभः । व्ययो न्यूनतर: श्रेष्ठो ह्यधिकश्चैव राक्षसः ॥ १९ ॥ चिन्तात्मकं व्ययं चापि आयेष्वष्टसु वर्जयेत् । पिशाचकमायसमं न कुर्याच्छुभकर्मसु ॥ २० ॥
इति व्ययाधिकारः॥ शृणु वत्स यथा चांशो वास्तुवेदे त्रिधा स्मृतः। पकैकक्रमयोगो वै शुभश्चाशुभ उच्यते ॥ २१ ॥ यदुक्ता मूलराशौ च आयार्थेषु फलं कृतम् । तत्र राशौ व्यये मिश्रे गृहनामाक्षराणि च ॥ २२॥ गुणैर्भक्ते व्यये शेष अंशकं त्रिविधं विदुः । इन्द्रो यमश्च राजा च त्रिभिर्नामभिरंशकाः ॥ २३॥ प्रासादप्रतिमालिङ्गे जगतीपीठमण्डपे । वेदीकुण्डश्रुक्षु चैव इन्द्रश्चैव ध्वजादिषु ॥ २४ ॥ क्षेत्राद्विसंक्षा ? नागेन्द्रे गणाध्यक्षे च भैरवे। ग्रहमातृगणे देव्यामादित्ये च यमांशकः ॥ २५ ॥ पुरणाकारनगरखेटकूटे च कवटे । हम्य च राजवेश्मादौ शस्तो राजा तथा मतः ॥ २६ ॥ स्वर्गादिभोगयुक्तानां नृत्यगीतमहोत्सवे । प्रजावने च पाण्डित्ये इन्द्रांशश्चोत्तमो मतः ॥ २७ ॥ विविधं च वणिक्कर्म मद्यमांसादिकं तथा । इत्युक्तं क्रमतश्चेत्थं प्रशस्तं च यमांशके ॥२८॥ गजाश्वरथक्रीडायां यानभानकादिक । स्वर्गादितुल्यभोगाश्च राजांशक उदाहृताः ॥ २९ ॥