________________
(६६) व्ययांशकताराग्रह जीवमृत्युसर्वबलं षट्षष्टितमं मूत्रम् ॥
विश्वकर्मोवाच
नक्षत्रे वसुभिर्भक्ते यच्छेषं व्ययमादिशेत् । अष्टौ व्ययास्तथाप्रोक्ता आयेष्वष्टसु योजिताः ॥१॥ आयाश्च कथिताः पूर्व व्ययानां लक्षणं शणु । एकैका यस्य संस्थाने व्ययाश्च त्रिविधाः स्मृताः ॥२॥ समो व्ययः पिशाचश्च राक्षसस्तु व्ययोऽधिकः । व्ययो न्यूनो यक्षश्चैव धनधान्यकरः स्मृतः ॥ ३ ॥ अनायव्यये कर्तरि आयहीने व्यये तथा। व्ययाधिक विनश्यन्ति अचिरेणैव सर्वदा॥ ४ ॥ ध्वजादिष्वष्टस्वायेषु अष्टौ शान्तादिका व्ययाः। प्रत्येकव्ययसंस्थाने आयो न्यूनेतरः स्मृतः ॥५॥ शान्तः पौर: प्रद्योतश्च श्रियानन्दो मनोहरः । श्रीवत्सो विभवश्चैव चिन्तास्मा च व्ययाः स्मृताः ॥६॥ आयस्थाने व्ययो योज्यो ह्यप्रशस्तो व्ययोऽधिकः । व्ययो न्यूनस्तथा श्रेष्ठो धनधान्यकरः स्मृतः ॥७॥ स्मृतो ध्वजे शुभः शान्तः नित्यं कल्याणकारकः । भोज्यं पूजाफलं शान्तिर्नृत्यं गीतं सुगलये ॥८॥ धूमस्थाने यदा शान्तो हेमरत्नादिसम्भवः । अग्न्युपजीवकानां च धातुद्रव्यफलप्रदः ॥९॥ सिंहस्थाने च पौरश्चेत् सिंहवञ्च पराक्रमैः । निहन्ति रिपुसैन्यानि ह्यात्मस्थाने महोत्सवाः ॥ १०॥ प्रद्योतः श्वानसंस्थाने नित्यं भोगसुखावहः। शख्यासु वेश्मनि तथानेकभोगादिकामदः ॥ ११ ॥ श्रियानन्दो वृषस्थाने नित्यं श्रीसुखशान्तिदम् । ध्यवहारोपस्करं च गुरुदेवार्चने रतिम् ॥ १२ ॥ मनोहरा खरे युक्तः सर्वमनोरथप्रदः । समस्तभोगयुक्तानां तीर्थयात्राप्रकाशकः ॥ १३ ॥ श्रीवरसो गजसंस्थाने स्त्रीणां क्रीडात्मनः स्मृताः । शृंगारभोगयुक्तानां बलपुष्टिप्रदायकः ॥ १४ ॥