________________
१५७
नक्षत्रराशिचन्द्र मैन्यनुक्रमो नाम पञ्चषष्टितम सूत्रम् ॥ भवेद् द्वादशभिर्विप्रः क्षत्रियो नवभिस्तथा । षड्गशिभ्यो भवेद् वैश्यस्त्रिभिः शुद्रः प्रशस्यते ॥ १६॥ चातुर्वर्णान्तरभेद एवमुक्तोऽपराजित । प्रीत्यर्थं च पुनर्भेदं कथये तव साम्प्रतम् ॥ १७ ॥ षडटके ध्रुवं मृत्युः प्रीतिःस्यात् समसप्तमे । अनिष्टं पञ्चनवमे पुष्टिदशचतुर्थके ॥ १८॥ तृतीयैकादशे मैत्री तृतीयद्वादशे रिपुः । राशयः षडिया एवमन्योन्यं पतिवेश्मनोः ॥ १९ ॥ गहाग्रे च यदा चन्द्रो क्षयं वेश्म करोति हि । राटचौगग्निभयं घोरं चन्द्रे वै पृष्ठमागते ॥ २० ॥ धनधान्यक्षमारोग्यं कुरुते दक्षिणस्थिते । श्रीस्त्रीपुत्रा उत्तमाश्च चन्द्रे वै उत्तरे स्थिते ॥ २१ ॥ सप्तो स्थापयेद्रेखा: पुनर्मिन्नाश्च सप्तभिः । रेखाः प्रोक्तानि साभिजिन्नक्षत्राण्यष्टविंशतिः ॥ २२ ॥ कृत्तिकादशमीशान्यां शेषाणि प्रदक्षिणे । हक्षेत्रोक्तमृक्षं च तत्र चन्द्रमुदीरयेत् ॥ २३ ॥ घेश्मपत्योर्भवेचैव गृहमैत्री परस्परम् । दादशमोक्ता राशयश्च नवैव च ग्रहास्तथा ॥ २४ ॥ तथैकराशिकाः केचित् केचिच्चैव द्विराशिकाः । तदनुक्रमकं वक्ष्ये यदुक्तं परमेश्वरैः ॥ २५ ॥ भौमस्य वृश्चिको मेषो भार्गवस्य तुला वृषौ । बुधस्य कन्यामिथुने सोमस्यैवं तु कर्कटः ॥ २६ ॥ सिंहः सूर्यस्य क्षेत्रं स्याद् धनुर्मीनौ तथा गुरोः । शनेश्च कुम्भमकरौ गृहक्षेत्राधिपा इति ॥ २७ ॥ न पीडयन्त्यात्मक्षेत्रं स्नेहिनः क्षेत्रपालकाः। रिपुगहं पीडयन्ति भस्मीकुर्वन्ति विग्रहे ।। २८ ॥ स्यात्सूर्यमन्दयोवैरं तथा च कुजमन्दयोः । गुरुशुक्रयोः स्याद्वैरं चन्द्रेण च बुधस्य तु ॥ २९ ॥ रखेरङ्गारकस्यैव मैत्री च गुरुचन्द्रयोः। एषां त्रयाणां वै मैत्री अन्येषां तु न विद्यते ॥३०॥ महाश्चत्वार एकत्र त्रय एकत्रसंस्थिताः। उभयोरन्तरं घोरं कालानल इवाऽपरः ॥ ३१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
नक्षत्रराशिचन्द्रमैत्र्यनुक्रमाधिकारो नाम पञ्चषष्टितमं सूत्रम् ।।