________________
(६५) नक्षत्रराशिचन्द्रमैत्र्यनुक्रमो नाम पञ्चषष्टितमं सूत्रम् ॥
विश्वकर्मोवाच
आयानां यत्तुक्षेत्रं च गुणितव्यं प्रतिष्ठयेत् । तत्क्षेत्रस्य फलं साध्यं गुणितं दैविस्तरैः ॥ १॥ फले चाष्टगुणे तस्मिन् सप्तविंशतिभाजिते । यच्छेषं लभ्यते तत्र नक्षत्रं तदूगृहस्य च ॥ २॥ देवनृराक्षसानां च नक्षत्राणां त्रिधा गणः । यस्य यस्याऽनुगा मैत्री वैरं स्याञ्च परस्परम् ॥ ३ ॥ स्वगणे परमा प्रीतिमध्यमा दैवमानुषे । मर्त्यपक्षसयोर्मृत्युः कलहो देवरक्षसोः॥४॥ नव देवगणाः प्रोक्ता मानुषा नव कीर्तिताः । नव रक्षोगणाश्चैव नक्षत्राणां विधा गणः ॥५॥ कृत्तिका मघा विशाखा आश्लेषा शततारका । चित्रायुक्ता धनिष्ठा च ज्येष्ठा मूलं च राक्षसाः ॥ ६ ॥ मृगोऽश्विनी रेवती च हस्त: स्वातिः पुनर्घसू । पुष्यानुराधाश्रवणमेते देवगणः स्मृतः ॥ ७ ॥ तिनः पूर्वाश्च भरणी आद्री वै रोहिणी तथा। उत्तरात्रयसम्युक्तः कीर्तितो मानुषो गणः ॥८॥
इति नक्षत्राधिकारः ॥ अथ राशीः प्रवक्ष्यामि लब्ध्या क्षेत्रफलेषु च । तदनुक्रमयुक्तीश्च कथये तव साम्प्रतम् ॥ ९॥ गृहक्षेत्रेषु यक्ष पञ्चविंशशताहतम् । षष्टिभिश्च हरेदू भागं भुक्तघट्यस्तु शेषतः ॥ १० ॥ ऋक्षभुक्तिक्रमयुक्ता स्वस्वराशिकसंज्ञिताः ? । स्युर्मेषाद्या राशयश्च अश्विन्यादिक्रमेषु च ॥ ११॥ वास्तुचक्रादिचकेषु ग्रहवेधविशोधनैः । अष्टाविंशतिरेवं च साभिजित् कृत्तिकादयः ॥ १२ ॥ चातुर्वर्ण्यप्रशस्तांश्च राशीनथ वदाम्यहम् । तत्र त्रयस्त्रयः प्रोक्ता विप्रशूद्रान्तमार्गतः ॥ १३ ॥ वृश्चिक: कर्कटो मीनो ब्राह्मणाः परिकीर्तिताः । धनुर्मेषस्तथा सिंहो राजन्याश्च शुभाः स्मृताः॥ १४॥ वृष: कन्या च मकर पते वैश्या उदाहृताः । मिथुनं च तुला कुम्भस्त्रयः शुद्राः प्रकीर्तिताः ॥ १५ ॥