________________
आयाधिकारो नाम चतुःषष्टितमं सूत्रम् ॥ वृषो वृषभरूपाढयो गजो हस्तिस्वरूपकः । धूमो मार्जाररूपश्च श्वान: श्वानाधिरूपकः ॥ ३२॥ खरो गर्दभरूपाढयो ध्वाङ्कः काकस्वरूपकः । सर्वे च वृषभारूढाः पुरुषाकारमुद्गला:?॥ ३३ ॥ तद्रपकाश्च हस्ताभ्यां पादाभ्यां विहगानुगाः।। ग्रीवया सिंहरूपाश्च प्रबलाश्च महोत्कटाः ॥३४॥ महागणेश्वराः प्रोक्ता अष्टदिक्क्षेत्रपालकाः । वास्तुकर्मसु सर्वेषु आया दिक्पतयोऽष्ट हि ॥ ३५ ॥ पूजिताः पूजयन्त्येव निघ्नन्ति चापदस्थिताः। साध्यक्षेत्रं च त्रिपुटं प्रभिन्नं च नवांशकः ॥३६॥ अष्टौ तथाऽऽयस्थानानि मध्ये स्यारकुलदेवता । गृहस्याऽभिमुखाः शस्ताः मध्यमाश्च पराकखाः ॥ ३७ ॥ नगराभिमुखाः शस्ताः पुरबाह्ये तु देवताः । देवानां प्रतिमा आया दिशापाला इति स्मृताः ॥ ३८॥ वसवः प्रतिदेवाश्च शिवयोगसमुद्भवाः । यावत् शिवदेवत्वं यावश्चन्द्रार्कमेदिनी । तावच वास्तुशास्त्रोक्ता आयाश्च समुदाहृताः ॥ ३९ ॥ साध्यक्षेत्रगुणाकारैगयाश्चैव प्रतिष्टिताः। यावत्तु क्षेत्रभक्तिश्च तावदायः प्रपालयेत् ॥ ४० ॥ खण्डितं स्फुटितं जीर्ण विशीर्ण स्फुटस्फोटितम् । स्यक्त्वा च वास्तुदेवाद्यमायास्तेषु विवर्जिताः ॥४१॥ अपदं तस्य संस्थान मासान्ते सन्धिशोधितम् ?। दिनाष्टके प्रलिप्ताङ्गं वर्जयन्ति च नित्यशः ॥ ४२ ॥ भानूदये मण्डलं च पुष्पप्रकरसंकुलम् । उदुम्बरोत्तरगाढ्यं जलकुम्भादिपूजनम् ॥ ४३ ॥ गृह्णाति हुताशनं ? स्वस्तिकैश्च महोत्सवैः। एवं वास्तावायायं च श्रियं चिन्तति नित्यशः ॥ ४४ ॥ शिवस्य पुष्पैश्चरणौ सुपूजितौ वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति ॥ ४५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्त श्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
मायाधिकारो नाम चतुःषष्टितम सूत्रम् ॥