________________
अपराजितपृच्छा सिंहे च विपुला भोगाः कलिः श्वाने सदा भवेत् । धनधान्यं वृषे चैव स्त्रीदूषणं च रासभे ॥ १५॥ गजे भद्राणि पश्यन्ति ध्वा च मरणं ध्रुवम् । प्रासादप्रतिमालिङ्गे जगतीपीठमण्डपे ॥१६॥ वेदीकुण्डशुचिष्वेवं पताकाछत्रचामरे । वापीकूपतडागानां कुण्डानां च जलाशये ॥ १७ ॥ ध्वजोच्छ्यस्य संस्थाने ध्वजं तत्र निवेशयेत् । आसने देवपीठेषु वस्त्रालङ्कारयोजने ॥ १८॥ केयूरमुकुटाये च वेशयेच्च ध्वज शुभम् ।। अग्निकर्मसु सर्वेषु होमशालामहानसे ॥ १९ ॥ धूमोऽग्निकुण्डसंस्थाने होमकर्मगृहेऽपि वा। आयुधानां समस्तानां नृपाणां भवनेषु च ॥ २० ॥ नृपासने सिंहद्वारे सिंहं तत्र निवेशयेत् । श्वानश्च म्लेच्छजातौ च गेहे श्वानोपजीविनाम् ॥ २१ ॥ तथा चाऽशुद्धसंस्थाने प्रशस्तः श्वानको मतः । घणिकर्मसु सर्वेषु भोज्यपात्रेषु मण्डपे ॥ २२॥ . वृषस्तुरङ्गशालायां गोशालायां च गोकुले।। ततविततादिस्वरे वादित्रे विविधे तथा ॥ २३ ॥ कुलालरजकादीनां खरो गर्दभजीविनाम् । गजश्च गजशालायां यानझम्पानयो रथे ॥ २४॥ शय्यायां शिबिकायां च गजमुद्रा चतुष्कतः। अन्तःपुरे गृहे प्रोक्तः पिण्डांवास्यादिकोद्भवः ? ॥ २५ ॥ अन्योपस्करकादौ च मदनागारके गजः।। तथाऽरहट्टयन्त्रेषु जिनशालादिकेषु च ॥ २६ ॥ ध्वाङः कल्याणकच्चैवं शिल्पकोपजीविनाम् । स्वके स्वके वै स्थाने च सर्वे कल्याणकारकाः ॥ २७ ॥ मित्रस्नेह्यानुगाश्चैव ते सर्वे हितकामदाः। वृषस्थाने गजं दद्यात् सिंहं वृषभहस्तिनोः ॥ २८ ॥ ध्वजः सर्वेषुदातव्यो वृषो नाऽन्यत्रदीयते । गजाभिदृष्टिः सिंहः स्याद् वारुणाभिमुखो ध्वजः ॥ २९ ॥ वृषभः प्राच्यभिमुखो गजो याम्यमुखस्तथा। सन्मुखा याम्योत्तराश्च अशस्ताः पृष्ठतोमुखाः ॥ ३०॥ स्वके स्वके वै स्थाने च प्रशस्ताश्च त्रिदिक्षु च । ध्वजः पुरुषरूपश्च सिंहः सिंहस्वरूपकः ॥ ३१ ॥