________________
(६४) आयाधिकारो नाम चतुःषष्टितमं सूत्रम् ॥
विश्वकर्मोवाच--
आयव्ययांशका ऋक्ष ताराचन्द्रबलं गृहे । जीवितं मरणं ज्ञेयं वास्तुविज्ञानपूर्वकम् ॥ १॥ नगरे वा पुरे चैव मानं दण्डैविधीयते। वास्तुदण्ड इति प्रोक्तः सोऽत्र वै हस्तसङ्ख्यया ॥२॥ चतुर्हस्तं च यत्क्षेत्रमङ्गुलैश्च फलप्रदम् । वस्वङ्गलैश्च क्षेत्रे तु पादैर्वा प्रतिशोधयेत् ॥ ३॥ तत्क्षेत्रं तु यथाकारमश्मकार्ये विशोधयेत् । यत्र हस्तमितिः क्षेत्रे तद्गृहं हस्तसङ्ख्यया ॥४॥ क्षेत्रालाभे तु तत्रैव स्यात्स्वदेहाङ्गुलैगृहम् । अङ्गुलैः क्षेत्रमाने च अङ्गुलैस्तदलाभतः ॥ ५ ॥ पादैर्वापि यवैर्वापि गृहक्षेत्रानुसारतः । तृणच्छन्दे स्वामिहस्तैहादौ कर्मिहस्ततः ॥ ६॥ राजवेश्मपुरादीनां वापीकूपादिकस्य च। . प्रासादेषु च देवानां शास्त्रहस्तेन केवलम् ॥ ७ ॥ दैयं हन्यात्पृथुत्वेन हरेभागं ततोऽष्टभिः । शेषमायं चैव विद्याच्छास्त्रदृष्टं ध्वजादिकम् ॥ ८॥ ध्वजो धूमश्च सिंहश्च श्वानो वृषखरौ गजः। ध्वातश्चेति समुद्दिष्टाः प्राच्यादिषु प्रदक्षिणाः ॥९॥ अन्योऽन्याभिमुखास्ते च क्रमच्छन्दानुसारतः। पूर्वं च ये समुद्दिष्टा आयुवृद्धिविधायकाः ॥ १० ॥ ध्वजः सिंहो वृषगजौ शस्यन्ते सुरवेश्मनि । अधमानां खरध्वाकधूमश्वान: सुखावहाः ॥ ११ ॥ ध्वजः प्रायः कृतयुगे त्रेतायां सिंह एव च । द्वापरे वृषबाहुल्यं गज एव कलौ युगे ॥ १२॥ कल्याणं कुरुते सिंहो नृपाणां च विशेषतः। ध्वजः प्रशस्यते विप्रे वृषो वैश्ये उदाहृतः ॥१३॥ उत्तरोत्तरमाख्याताश्चतुर्वर्णफलप्रदाः ।
ध्वजे चैवार्थलाभः स्याद् धूमे संताप एव च ॥ १४॥ २० अ.