________________
१५२
अपराजित पृच्छा
अथ रात्रौ ध्रुवसाध्यं ध्रुवाक्षा दक्षिणोत्तरम् । मण्डलोभयपक्षे च मध्ये स्थाप्यं त्रिदीपकम् ॥ ३० ॥ एकसूत्रे यदा श्रीणि दीपशिखाग्रकाणि च । पूर्वसंस्थं ध्रुवसाध्यमपरस्थं च दोषकृत् ? ॥ ३१ ॥ शस्तं तु मीनपातैश्च पूर्वापरादिसाधनम् । विकर्णकर्णगा साध्या ध्रुवशङ्कुप्राच्युद्भवः ॥ ३२ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां गृहारम्भप्रतिष्ठादिनमासनिर्णयाधिकारो नाम त्रिषष्टितमं सूत्रम् ॥