________________
गृहारम्भप्रतिष्ठादिनमास निर्णयो नाम त्रिषष्टितमं सूत्रम् ॥
मूलं व नक्षत्राणि हि गृहे विप्रिविवर्जितम् । एतत्प्रोकं प्रतिष्ठादौ देवानां देववेश्मनाम् ॥ १५ ॥ उत्तरायां सदा वृद्धिर्हस्ते सिद्धिर्यथेप्सिता । ज्ञानलाभश्च श्रवणे मूले नन्दन्ति मन्त्रिणः ॥ १६ ॥ आर्द्रायां चैव सौभाग्यं रोहिण्यां न च संशयः । स्वातिः शान्तिप्रदा नित्यमनुराधा वरप्रदा ॥ १७ ॥ पुनर्वस्वोः प्रजावृद्धिः पुष्ये नीरोगिता थियो । एतावन्त्येव लग्नानि यानि पूर्वोदितानि च ॥ १८ ॥
इति द्वादशप्रतिष्ठाः ॥
प्राचीमत: प्रवक्ष्यामि दिङ्मूढभ्रान्तिनाशिनीम् । सा च पञ्चविधा उक्ता कथये यामनुक्रमात् ॥ १९ ॥ दिनादो मेपतुलयोः कृत्तिकाश्रवणोदये । चित्रास्वात्यन्तरे चैव शङ्कुच्छाया ध्रुवेषु च ॥ २० ॥
कृत्तिकादये या प्राची सा प्राची श्रवणोदये । चित्रास्वात्यन्तरे प्राची तत्र सूत्रान्तरोत्तरा ॥ २१ ॥ ध्रुवशङ्कोद्भवा प्राची सूत्रसूत्रान्तरोत्तरा । दिनादो मे तुलयोः सूर्यभुक्त्येकमार्गतः ॥ २२ ॥ स्यात्पलत्रयतो वृद्धिस्वे हस्वानुवर्धयेत् । -हासवृद्धीअर्बुदार्द्धमयनं दक्षिणोत्तरम् ॥ २३ ॥ जलाग्रमस्तकभवा साधने स्यात् समक्षितिः । साधनीया क्षमा त्वेवं शङ्कुमूर्ध्वे च स्थापयेत् ॥ २४ ॥ भ्रमसिद्धाः समतला निर्वणा दोषवर्जिताः । द्वादशपर्वोद्भवाश्च शङ्कच्छायाश्च पर्वभिः ॥ २५ ॥
द्वादश दशाष्टाभिञ्च त्रिभिर्वृत्तं क्षिप्ताङ्कितम् । शङ्कच्छाय शि छायस्त्रिगुणतो द्विपर्वयुक्तिकोत्तमा ? ॥ २६ ॥
परिधौ बाह्यवृत्तस्य व्यासे शङ्कुतुल्योत्तमा I कूलवंश पूर्वा छाया शङ्कुश्चरणाश्रितैः १ ॥ २७ ॥
छायाग्रे वृत्ततुल्या व छाया पूर्वापरोद्भवा । प्रवेशे निर्गमे छाया याति सूत्रं सदा भवेत् ॥ २८ ॥ याम्योत्तरं सूत्रपाते मत्स्यमुखं पुच्छाग्रसूत्रे ? याम्योत्तरोद्गतं सूत्रं विकर्णैः कर्ण साधनम् ॥ २९ ॥
१५१