________________
(६३) गृहारम्भप्रतिष्ठादिनमासनिर्णयो नाम त्रिषष्टितमं सूत्रम् ॥
विश्वकमोवाच
इदानीमभिधास्यामः सूत्रपातविधिक्रमम् । शस्ते मासे सिते पक्षे सुलग्ने व शुभे दिने ॥१॥ चैत्रे शोकाकुलो भर्ता वैशाखे च धनान्वितः। ज्येष्ठे गृहा निपद्यन्ते आषाढे पशुनाशनम् ॥२॥ धावणे धनवृद्धिश्च भाद्रे तु न बसेद् गृहे। कलहश्चाश्विने मासे भृत्यनाशश्च कार्तिके ॥३॥ मार्गशीर्षे धनप्राप्तिः पौषे वै कामसंपदा । माघे चाग्निभयं कुर्यात् फाल्गुने श्रियमुत्तमाम् ॥ ४ ॥ तृतीया पञ्चमी चैव सप्तमी नवमी तथा । एकादशीत्रयोदश्यौ तिथयश्च सुखावहाः ॥ ५॥ चन्द्रताराबलं भर्तृ राजमानं हि शस्यते । सूर्यपाततिथिं दद्यादू विष्टिगण्डान्तवर्जितम् ॥ ६॥ इह वै सूत्रपातैश्च क्रिया: प्रासादकर्मणि । कार्याः पुरनिवेशे तु प्रारम्भे भवनस्य च ॥ ७॥ भूम्यारम्भे शिलान्यासे द्वारस्तम्भोच्छ्यादिषु। आदित्ये चोत्तरस्थे च शोभने लग्न एव च ॥ ८॥
इत्यारम्भादिशस्तमासाः प्रतिष्ठाद्यं प्रवक्ष्यामि प्रोक्तं यत्परमेश्वरैः । अहं तरकथयिष्यामि प्रान्देवश्च भाषितम् ॥ ९॥ दीक्षा च सर्वकालेषु प्रतिष्ठा पञ्चमासिकी । चैत्रश्रावणवैशाखे शिवरात्रौ च कार्तिके ॥ १० ॥ दीक्षाश्च द्वादश प्रोक्ता माले मासे च शाश्वताः । धर्मार्थकाममोक्षाश्च शिष्य गुर्वनुग्रहात् ॥ ११ ॥ फाल्गुने पाथ चैत्रे वा माघे वैशाख उत्तमा । ज्येष्ठे मासे तथाऽऽपाढे आदित्य चोत्तरस्थिते ॥१२॥ द्वितीया च तृतीया च पञ्चमी चाऽथ सप्तमी । दशम्येकादशी रम्या पूर्णिमा च त्रयोदशी ॥ १३ ॥ उत्तरायरोहिण्य आदी चैव पुनर्वसू । पुण्यानुराधाश्रवणं मृगस्वात्यो च हस्तकम् ॥ १४ ॥