________________
वास्तुपरिभ्रमणादिगुणदोषनिर्णयो नाम द्वाषष्टितमं सूत्रम् ॥
I
दिशायां विदिशायां च वास्तुवेधविशोधनम् । जीर्णे नवतरे वापि वेधदोषं विवर्जयेत् ॥ १६ ॥ वेधा नः कथिताः पूर्व दोषांश्चैव ततः शृणु एकपादादिकं वास्तु पर्यन्तं सहस्रान्तिकम् ॥ १७ ॥ सुरस्थानं यदा शून्यं पदं पूजां विना यदा । विघ्नोत्कटं महाघोरं कुरुते दारुणं भयम् ॥ १८ ॥ afrकान्तरबाधेषु पदमेकं सुरैर्विना । विरोधं गोत्रकलहं मुक्तकोणस्य तत्फलम् ॥ १९ ॥ अन्यपृष्ठे यदा चान्यं प्रासादं पुरमन्दिरम् । खादकं नाम तद्वास्तु परस्परविरोधकृत् ॥ २० ॥ कुक्षिद्वारं गृहे वापि कुर्याद्वा सुरसद्मनि । विभ्रमं नाम तद् वास्तु विभ्रमेत गृहाधिपम् ॥ २१ ॥ कुक्षिभागे यदा चान्यं गृहं च सुरसद्म वा । कुक्षिदं नाम तद्वास्तु विभ्रमे नैतद् दृश्यत ॥ २२ ॥ अग्रे द्वारोन्नतं मेहं निम्नगं मध्यसंस्थितम् । उच्छ्रितं नाम तद् वास्तु वृद्धिपूजादिकं हनेत् ॥ २३
समगृहं समरूपं द्वारमध्ये पट्टाग्रजम् । बिन्दुकं नाम तद् वास्तु हनेच्च सन्तत्यादिकम् ॥ २४
गृहभ्यासकर्णायतं त्रिपञ्च हस्तमुच्छ्रितम् । इव्यादिकं बहुकाष्ठं शाश्वतं न भवेद् गृहम् ॥ २५ ॥ कर्णशाला यदा लग्ना आग्नेय्यां दिशि संश्रिताः । अग्निदं नाम तद् वास्तु कुरुतेऽग्निभय ध्रुवम् ॥ २६॥
नैर्ऋत्येव यदा लग्नाः शालाश्च वास्तुबाह्यतः । नैर्ऋत्यं नाम तद् वास्तु व्याध्याधिक्यं तु मृत्युकृत् ॥ २७ ॥
वायव्ये तु यदा लग्ना: शालाश्च गृहबाह्यतः । वायव्यं नाम तद् वास्तु गृहे वायुभयं भवेत् ॥ २८ ॥
ईशाने तु यदा लग्नाः शालाश्च गृहबाह्यतः । देवकं नाम तद् वास्तु देवदोषः सदा भवेत् ॥ २९ ॥ अधोभयां तु ये दोषास्तथैव चोर्ध्वमादिशेत् । ऊर्ध्वभूमिदिशाक्षं चैतद्गुणं दोषमादहेत् ॥ ३० ॥
इति सूत्रसम्तान गुणकीर्तिप्रकाश प्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छाय वास्तुपरिभ्रमणादिगुणदोषनिर्णयाधिकारो नाम द्वापष्टितमं सूत्रम् ॥
ફેર