________________
(६२) वास्तुपरिभ्रमणादिगुणदोषनिर्णयो नाम द्वाषष्टितम सूत्रम्
विश्वकर्मोवाच
अतः परं प्रवक्ष्यामि ज्ञानं च धर्मदुर्लभम् । वास्तुविद्यापूर्वकं च सर्वसिद्धिप्रदायकम् ॥ १ ॥ ज्योतिःशास्त्रप्रणेतारं सर्वकामफलप्रदम् । प्रणम्य तं च पुरुषं राशिमध्ये तथा स्थितम् ॥२॥ रवौकन्यातुलालौच पूर्वे शिर: समाश्रितः । धनोश्च मकरे कुम्भे दक्षिणे तु व्यवस्थितः ॥ ३ ॥ मीने मेषे वृषे चैव पश्चिमे तु समाश्रितः। मिथुने सिंहकर्के व शुत्तरेण व्यवस्थितः ॥ ४॥ सर्वकालक्रमोऽयं च राशिमध्ये हतःशणु । देवताश्च क्रमयोगेन स वास्तु: सरते महीम् ॥ ५॥ यत्र भानुस्तत्र शिरं लक्षितव्यं रविक्रमात् । अन्यथा कुरुते दुःखं शिरो वास्तावलड़तम् ॥ ६॥ देवागारं गृहं यत्र न कुर्याच्छिर; सन्मुखम् । मृत्युरोगभया नित्यं शस्तं च कुक्षिसन्मुखम् ॥ ७ ॥ कन्यातुलावृश्चिके च भास्करो यदि संस्थितः। पूर्व मुखं न कर्त्तव्यं गृहं भवति निष्फलम् ॥ ८॥ मकरे चैव धनुषि कुम्भे वा च दिवाकरे । यास्यादिशि मुखं कुर्याद्राजचौराग्निजं भयम् ॥ ९ ॥ मीने मेषे षे चैव पश्चिमा दिग् च दूषिता । स्त्रीणां रोगं महाघोरं भवति यतिदारुणम् ॥ १०॥ मिथुने सिंहककें च वेश्म नैवोत्तराननम् । दोषशोकभयं तत्तु न कुर्याच्च विचक्षणैः ॥ ११ ॥ तत्र ना सर्पति वास्तु भ्रमणेरग्निमध्यतः! पूर्वदक्षिणतश्चैव पश्चिमोत्तरतो मुखम् ॥ १२ ॥ शिरो नेत्रे च बाहू च उदरं कटिजवाया। वेधयन्ते गहे मर्म पूजाहानिर्महद् भयम् ॥ १३॥ कन्यादिसक्रान्तियोगे प्रा यादिक्रमतो दिशि । न कुर्वीत शिरो वास्तो कार्य तन्मुखं गृहम् ॥ १४ ॥ क्षपाकरेणैव गृहं पुरस्तात् कुर्यान्न वास्तु न च यातु कर्ता । पतन्ति खन्या न च दृष्टिसंस्थिता तस्मात्प्रयत्नेन त्विदं विचिन्त्यताम् ।।
इति वास्तुदिशामुक्तिमानम् ॥ १५ ॥