________________
१४७
आचार्यसूत्रधारनिर्णयो नामैकषष्टितम सूत्रम् ॥ बलीवश्च वाहिनीयानझम्पानकादिकम् । हलं सकूपं क्षेत्रं च पुष्पोद्यानं फलैर्युतम् ॥ १५॥ गृहं दिव्यं च भुवनं पञ्चभूम्यादिकं गृहम् । ध्वजाकलशसंयुक्तं कर्त्तव्यं शिल्पिने तथा ॥१६॥ पादापत्यददे तस्या प्रेक्षनादिक्ष संतताः ? । तेन तत् हियते चैव गृहचिन्तादि बाह्यतः ॥ १७ ॥ एकचित्ते समाधिष्ठे प्रासादकर्मकौशलम् । परब्रह्मानुष्ठानवत् लीयमानो यथा भवेत्॥१८॥ तरसाहाय्यं वृद्धिहेतु प्रारब्धकृतनिश्चयम् । तेनासौ लभते सिद्धिमिहलोके परत्र च ॥ १९॥ सूत्रधार तथाचार्य बद्धहस्तः क्षमापयेत् । पिता च मम त्वष्टा च इह लोके भवान् मतः ॥२०॥ परत्र च स्वयं नष्टा तथा मम भवान् गुरुः। स्वं माता च पिता चैव त्वं च पितृपितामहः ॥ २१ ॥ संसारपाशच्छेदं च त्वं कुर्या मम योगतः । भूषणार्थः पूजनीया वस्त्रश्च खातकारकाः ॥ २२ ॥ विधामस्तद् दिने वास्तौ सर्वविघ्नोपशामकः । दीनान्धयाचकेभ्यस्तु तुलादानं समर्पयेत् ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
माचार्यसूत्रधारपूजानिर्णयाधिकारो नामैकषष्टितमं सूत्रम् ॥