________________
(६१) आचार्य सूत्रधारपूजानिर्णयो नामैकषष्टितमं सूत्रम् ।
विश्वकर्मोवाच-
आचार्यं पूजयेत्तत्र वस्त्रालङ्कारभूषणैः । स्वर्णपट्टैः कुण्डलाभ्यां कण्ठाभरणकङ्कणैः ॥ १ ॥
रत्नयुक्तमुद्रिकाभिः कटिसूत्रादिकैस्तथा । पादाभरणश्चैव हवेन्द्र साङ्गमात्रिका ? ॥ २ ॥ परीपरुर्णवस्त्रैः शिखरो मात्र ? छत्रकैः । वाहनैर्युकमेवाथ यानझम्पानको त्तमैः ॥ ३ ॥
अश्वो गजो रथो वापि दातव्या भूमिसम्युताः । ग्रामो देशाः पृथगुक्तं गुरुपत्नी विशेषतः ॥ ४॥ भूमिस्थान गेहदानमाचन्द्रार्क च तत्फलम् । वस्त्रालङ्करणैर्युक्तं गुरुं शिष्यस्तु भक्तितः ॥ ५ ॥
इति गुरुपूजा ||
भूमस्तले सूत्रधारो विश्वाधिपो द्वितीयकः । वेदवेदाङ्गसंभूतो हविष्याशी धिते ? द्विजः ॥ ६॥ सूत्रधारं ततः प्राज्ञः सर्व सूत्रादिबन्धकम् । वास्तुवेदप्रवक्तारं शास्त्रज्ञं प्रियवादिनम् ॥ ७ ॥ माधुर्यालापनोपेतं संसार मोहमुद्रकम् । यस्य नाशात्परं साध्यं धर्मार्थकाममोक्षकम् ॥ ८॥ तं शिल्पिनं पूजयेत आर्यदेशसमुद्भवम् । आर्यालापबालबोध्यं संसारार्णवतारणम् ॥ ९ ॥ वाग्मिनं च तथा हेतुज्ञान तर्कितकौशलम् । सर्वशास्त्रज्ञानवन्तं विज्ञानादिसमन्वितम् ॥ १० ॥ पूजयेद् दिव्यवस्त्रैश्च दिव्यालङ्कारभूषितैः 1 पृष्ठ पत्रपः सुवर्णैर्दशाङ्गमात्रिकाः १ ॥ ११ ॥ पुत्रकलत्रसंयुक्तं भ्रातृयुक्तं तथोत्तमम् । सभृत्यं बलयुक्तं च शैलकर्माधिकारकम् ॥ १२ ॥ कुटुम्ब गृह चिन्ताश्च खाद्यपेयादिकोद्भवाः । वस्त्रताम्बूलादि चिन्ता गृहेषु या भवन्ति च ॥ १३ ॥ तापहारणीया वै कर्मचिन्ता यथा भवेत् । ग्रामं वा भोग्यभूमिं वा कर्मकारोचितं यथा ॥ १४ ॥