________________
दिक्पालादिवास्तुदेवपूजाबलिकर्मयुक्तिर्नाम षष्टितमं सूत्रम् ॥ औं ईशान्यां तु दिशापते शूलहस्त महाबल। वृषपृष्ठसमारूढ रुद्रदेव यथाविधि ॥ ३२ ॥ आवाहनमन्त्रैः पूजां बलिं गृह्ण गृह्ण स्वाहा । अटवृषारूढ क्षेत्रपालैश्च परिवेष्टित भूतराज नमोऽस्तु ते ॥ ३३ ॥ औं अधस्तात्तु दिशापते चक्रहस्त महाबल । गरुडं च समारूढ विष्णुदेव यथाविधि ॥ ३४॥ आवाहनमन्त्रैः पूजां बलिं गृह गृह स्वाहा । अष्टगरुडस्थ क्षेत्रपालैश्च परिवेष्टित जगत्पते नमोऽस्तु ते ॥ ३५॥
आँ अायां तु दिशापते अक्षहस्त महाबल । हंसे चैव समारूढ ब्रह्मदेव यथाविधि ॥ ३६॥ आवाहनमन्त्रैः पूजा बलिं गृह गृह्ण स्वाहा । अष्टहंसारूढ क्षेत्रपालैश्च परिवेष्टित सृष्टिराज नमोऽस्तु ते ॥ ३७ ॥ स्थानदेवा जलदेवा: स्थलदेवास्तथैव च । तथाऽन्तरिक्षदेवाश्च भूमिदेवास्तथैव च ॥ ३८॥ तथा पातालदेवाश्च अमृतवृक्षदेवताः । तथा प्रासाददेवाश्च गृहदेवास्तथैव च ॥ ३९ ॥ बहदेवाः क्षेत्रदेवा दद्यादेभ्यो बलिं बुधः।
क्षमापयेन्नमस्कृत्य तथैव सर्वदेवताः ॥ ४० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां दिक्पालादिवास्तुदेवपूजाबलिकर्मयुक्त्यधिकारो नाम षष्टितमं सूत्रम् ॥