________________
१४४
अपराजित पृच्छा
मद्यं मांसं च जृम्भायां पूतनायां रक्तौदनम् । अर्थणि चास्थिमांसं चास्थिमालं पापराक्षसी ॥ १५ ॥ स्कन्दायां च पशुं मद्यं देव्योऽष्टौ सुप्रदक्षिणाः । आसां पदविधिर्नास्ति पूजां गृह्णन्ति केवलम् ॥ १६ ॥ आच्छाद्यन्ते वस्त्रयुग्मैरम्बिका भद्रकुम्भके । दिक्पालेभ्यो बलिं दद्यात्क्षेत्रभ्यो विशेषतः ॥ १७ ॥ आँ पूर्वायां दिशापते वज्रहस्त महाबल । ऐरावतस्कन्धारूढ इन्द्रदेव यथाविधि ॥ १८ ॥ आवाहन मंत्रैः पूजां बलिं गृह्ण गृह स्वाहा ।
अनुगजारूढ क्षेत्रपालैः परिवेष्टित सुराधिराज नमोऽस्तुते ॥ १९ ॥
आँ आशेय्यां दिशापते भुवाहस्त महाबल । मेषं चैव समारूढ अग्निदेव यथाविधि ॥ २० ॥
आवाहन मंत्रैः पूजां बलिं गृह्ण गृह्ण स्वाहा । अमेषारूढ क्षेत्रपालैश्च परिवेष्टित प्रेतराज नमोऽस्तुते ॥ २१ ॥
आँ यास्यायां तु दिशापते दण्डहस्त महाबल । महामहिषमारूढ यमदेव यथाविधि ॥ २२ ॥ आवाहन मंत्रः पूजां बलिं गृह गृह स्वाहा । अष्टमहिषारूढ क्षेत्रपैश्च परिवेष्टित प्रेताधिराज नमोऽस्तुते ॥ २३ ॥ आँ नैर्ऋत्यां च दिशापते खड्गहस्त महाबल । प्रेत स्कन्धसमारूढ बलिदेव यथाविधि ॥ २४ ॥ आवाहनमन्त्रैः पूजां बलिं गृह्ण गृह्ण स्वाहा ।
अप्रेतारूढ क्षेत्रपालैश्व परिवेष्टित प्रेताधिराज नमोऽस्तुते ॥ २५ ॥
आँ पश्चिमायां दिशापते पद्महस्त महाबल । न चैव समारूढ जलेश्वर यथाविधि ॥ २६ ॥
आवाहन मंत्रैः पूजां बलिं गृह गृह्ण स्वाहा । अष्टनक्रसमारूढ क्षेत्रपैः परिवेष्टित जलाधिराज नमोऽस्तुते ॥ २७ ॥
आँ वायव्यां तु दिशापते ध्वजहस्त महाबल । मृगपृष्ठसमारूढ वायुदेव यथाविधि ॥ २८ ॥
आवाहनमन्त्रैः पूजां बलिं गृह गृह स्वाहा ।
अष्टमृगारूढ क्षेत्रपालैश्च परिवेष्टित पवनाधिराज नमोऽस्तु ते ॥ २९ ॥ आँ उत्तरस्यां दिशापते निधिहस्त महाबल । हस्तिस्कन्धसमारूढ निधिराज यथाविधि ॥ ३० ॥
आवाहन मन्त्रैः पूजां बलिं गृह गृह्ण स्वाहा । अष्टगजारूढ क्षेत्रपालैश्च परिवेष्टित निधिराज नमोऽस्तु ते ॥ ३१ ॥