________________
(६०) दिक्पालादिवास्तुदेवपूजाबलिकर्मयुक्तिर्नाम षष्टितमं सूत्रम्।
विश्वकर्मोवाच
अत ऊर्ध्वं पुनश्चान्यत् प्रवक्ष्यामि यथाक्रमम् । वास्तुदेहे स्थिता देवाः सम्पूज्या वृद्धये तथा ॥१॥ घृताक्षतानमीशाने पर्जन्ये चोत्पलोदकम् । जये पीताम्बरं चैव वज्रं पिष्टमयं त्वथ ॥२॥ माहेन्द्रे सर्वरत्नानि सूर्ये धूम्रवितानकम् । गोधूमाः सघृताः सत्ये भृशे मत्स्यांस्तु दापयेत् ॥ ३॥ संकलिं चान्तरिक्षे तु शुचिं दद्याद्भुताशने । धान्यकल्कं तथा पूष्णि वितथे चणकौदनम् ॥ ४॥ गृहक्षते गोरोचनं शमीपत्रं यमे तथा। गन्धर्वे शतपत्रं च भृङ्गराजे तु पीठकम् ॥५॥ मृगे नीलयवं ख्यातं पितृषु गुलमोदकाः । दौवारिके मातुलिङ्गं सुग्रीवे विविधं फलम् ॥६॥ शतपत्रं पुष्पदन्ते पद्मं स्यादब्धिनायके। असुरे तु सुरा देया शोषे तैलं तिलस्तथा ॥७॥ पकमांसं राजयक्ष्माभिधे रोगे तथौषधम् । नागे चैव क्षीरपानं श्रीखण्डं तु विश्वाधिपे॥८॥ भल्लाटे काञ्चनं देयं सोमे दयाश्च मण्डकान् । गिरौ तु सक्तुतोयं तु चादितौ लपिकां तथा ॥९॥ दितौ कम्बलयुग्मं च ह्यापे दद्यात्तु मालतीः । तथा गोदध्यापवत्से त्वयम्णि रक्तचन्दनम् ॥ १०॥ शतपत्रं सवितरि सावित्रे सर्वपुष्पकम् । विवस्वति मोदकानि हीन्द्रे स्यात्पुष्पमालिका ॥ ११ ॥ चम्पकानि विन्द्रजये मित्रे स्यात्तु घतोदनम् । रुद्रे गन्धः गुग्गुलानां सिद्धानं रुद्रदासके ॥ १२॥ पृथ्वीधरे रत्नमाला ब्रह्मण्यमतकुम्भकम् । फलपुष्पयवाक्षतैः पञ्चगव्यैः पुनर्युतम् ॥ १३॥ चरक्यां चैव दातव्या अस्थिमांससुरास्तथा। पीतौदनं पक्कमांसं विदारीपिलिपिच्छयोः ॥१४॥