________________
१४२
अपराजितपृच्छा ॥ अष्टवर्गाः समाख्याताः कर्णपाश्चि कीर्तिताः । ब्रह्मकर्ण त्रिपद्मान्ते ? महामर्मचतुष्टयम् ॥ १५॥ ममोपमर्मणी रक्ष्ये महादोषभयावहे। वंशोपवंशौ सन्धिश्च रेखाषट्कं च लाङ्गलम् ॥ १६ ॥ भूपरिग्रहो वास्तुश्च मर्मादि कथितं तव । पित्रोद्घतो भवेच्चैवं कृते शिरसि खातके ॥ १७ ॥ भुजे स्कन्धे बन्धुनाशो हृदये च महाभयम् । धनधान्यसमृद्धिश्च जायते कुक्षिखातके ॥ १८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वास्तुमर्मोपमर्मनिर्णयाधिकारो नामैकोनषष्टितम सूत्रम् ।।