________________
(५९) वास्तुमर्मोपमर्मनिर्णयो नामैकोनषष्टितमं सूत्रम् ॥
विश्वकर्मोवाच
चतुःषष्टिपदैः क्षेत्रे पुरवास्तु प्रकल्पयेत् । मर्मोपमर्मसन्धींश्च वास्तुदेहसमुद्भवान् ॥ १ ॥ पूर्वापरायता वंशा उपवंशाः प्रभेदतः । मर्माणि वंशसम्पाता उपमर्माणि मध्यतः ॥२॥ इन्द्रादित्यतस्त्रिरेखा वरुणपुष्पदन्तगाः । एते वंशाः समाख्याता उपवंशा याम्योत्तराः ॥ ३ ॥ सोमभल्लाटतस्तिस्रो गृहक्षतयमान्तगाः । पूर्वापरायता रेखाः पुनर्भिन्नाश्च तिसृभिः॥ ४॥ ईशब्रह्मपिततश्च शिरा रोगाग्निमध्यतः । शिरास्त्येवं विकर्णस्था ईशाग्निपितृरोगतः ॥५॥ जयगन्धर्वसुग्रीवगिरिभिश्च प्रभेदिताः। सत्यमुख्यायता रेखा वितथाच्चासुरान्तगाः ॥ ६॥ एते च सूत्रसंपाता महामर्माणि कीर्तिताः। सूत्रसंपाताग्रपङ्किपटक लागलमुच्यते ॥ ७॥ शिरासूत्रपातषट्कं तच्चापि लाङ्गलं स्मृतम् । चतुर्विंशति लाङ्गलानि पदार्धेषु त्रिकर्णगा ? ॥ ८ ॥ ब्रह्मणश्च चतुःपाइँष्यष्टसूत्राणि पद्मकम् ।। पक्षेषु लागलं द्वंद्वं परेखाभिर्विधीयते ॥९॥ चतु:कणेषु शूलानि षरेखाभिश्च वज्रकम् । त्रिशललाङ्गलपद्म शिरानाडिविवर्जितम् ॥ १० ॥ धन्धुच्छेदश्वोपवंशे मर्मणि स्यात्कुलक्षयः। वने च वज्रपाताः स्युत्रिशूले च रिपोर्भयम् ॥ ११ ॥ पने पतिविनाशश्च लागलेषु प्रजाक्षयः । कर्णशिरा स्त्रीविनाश: सम्पाते चाग्रजातके ॥ १२ ॥ चतुर्पु ब्रह्मकर्णेषु महाममै सुकीर्तितः। धनधान्यविनाशश्च सर्वनाशस्तथैव च ॥ १३ ॥ पदव्यासषोडशांशो भागो द्वादशकः पुनः । चालानं सन्धिसम्पाते वय॑ते मर्मशिल्पिभिः ॥ १४ ॥