________________
१४०
अपराजितपृच्छा
तन्मानानुक्रमाद्योज्याः शेषा अष्टपदास्तथा । एवं सहस्रपर्युक्तं सर्वतोभद्रलक्षणम् ॥ २७ ॥
इति सहस्रपदं सर्वतोभद्रवास्तु । ईशस्तथा च पर्जन्यो जयो माहेन्द्र एव च । आदित्यः सत्यभृशौ चाऽन्तरिक्षान्ताऽप्ट पूर्वतः ॥ २८ ॥ अग्निः पूषा च पितथो गृहक्षतो यमस्तथा।। गन्धर्वो भृङ्गराजश्च मृगान्ताश्चाष्ट दक्षिणे ॥२९॥ पितरो दौवारिकश्च सुग्रीवः पुष्पदन्तकः । वरुणश्चासुरः शोषः पापयक्ष्मा तु पश्चिमे ॥३०॥ रोगोनागस्तुमुख्यश्च भल्लाट: सोम एव च । गिर्यदितिर्दितिश्चैवाष्टाधुत्तरदिशि कमात् ॥ ३१॥ ब्रह्मकर्णे तथा चाष्टाचीशान्यादि क्रमेण तु। आपश्चैवापवत्सश्च ईशकणे तु संथितौ ॥ ३२॥ सविता चैव सावित्री आग्नेय्यां तु समाश्रितो । इन्द्र इन्द्रजयश्चैव नैर्ऋत्यां ब्रह्मणः स्थितौ ॥ ३३ ॥ रुद्रश्च रुद्रदासश्च संस्थिती यायवीदिशि। मरीचिश्च विवस्त्यांश्च मित्रश्च पृथिवीधरः ॥ ३४॥ पूर्वादिक्रमयोगेन संस्थिताश्च चतुर्दिशम् । एवमादिक्रमयोगः सर्वेषां वास्तुमण्डले ॥ ३ ॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वास्तुपददेवताभिधाननिर्णयाधिकारी नामाष्टपञ्चाशत्तमं सूत्रम् ।।