________________
वास्तुपददेवताभिधाननिर्णयो नामाष्टपञ्चाशं सूत्रम् ।। चतुःषष्टिपदं वक्ष्ये वास्तु पुरनिवेशने । विभक्तिपदसंस्थानं देवतानामनुक्रमात् ॥ १२॥ चतुष्पदो भवेद् ब्रह्मा तत्समा अर्थमादयः । अर्यमार्धे कर्णगाश्च कर्णाधैं चतुर्विंशतिः ॥ १३ ॥ बाहाकणे स्थिताश्चाष्टौ लाडले पदमर्धकम् । ईदृशं भद्रकं प्रोक्तं चतुःषष्टिपदस्थितम् ॥ १४ ॥
इति भद्रकवास्तु । ब्रह्मा नवपदो मध्ये षट्पदा अर्यमादयः। द्विपदा मध्यकर्णाद्या द्वात्रिंशदेकपादकाः ॥ १५ ॥
इति कामवास्तु॥ ततः शतपदं वक्ष्ये पूज्यं प्रासादमण्डपे । ब्रह्माद्याः सकलाश्चैवाष्टपादा अर्यमादयः ॥ १६ ॥ द्विपदा ब्रह्मकर्णेऽष्टौ बाह्येऽष्टौ सार्धपादकाः । शेषाश्चैकपदा शेयाश्चतुर्विशतिसङ्ख्यया ॥ १७ ॥
इति शतपदं भद्राख्यवास्तु ॥ चतुरधीकृते क्षेत्रे द्वात्रिंशद्भिर्विभाजिते । षट्पञ्चाशत्पदैर्युक्तान्येकादश शतानि हि ॥ १८॥ मध्यस्थाने लिखेत् पनं वेदगर्भ इति स्मृतम् । ब्रह्मान्ते च भवेद्वीथीं चत्वारिंशत्पदैः क्रमात् ॥ १९ ॥ अर्थम्णोऽन्ते भवेद्वीथी शतं च द्वादशोत्तरम् । वीथीकणे समस्तैवं पदमुक्तिः क्रमोदिता ॥ २० ॥ सप्तदशमण्डलेषु चाये पनं निपातयेत् ।। तदनन्तरपतौ च ब्रह्मा षण्णवतिपदः ॥ २१ ॥ तदन्ते वीथिका कार्या चत्वारिंशत्पदान्विता । अशीतिभिश्च चत्वारोर्यमाद्याश्च चतुर्दिशम् ॥ २२ ॥ चत्वारिंशत्पदैर(रष्टौ स्युर्ब्रह्मकर्णतः। तदन्तीथिका कार्या शतं च द्वादशोत्तरम् ॥ २३ ॥ तबाह्ये च भवेद्वीथी द्वात्रिंशदधिकं शतम् । कोणे लोप्याश्च षट्पादाश्चतुषु चतुर्विंशतिः ॥ २४ ॥ ईशाद्या रुद्रदासान्ता लता वीथ्यन्तरे गताः। एवं पदानि जायन्ते षट्त्रिंशदधिकं शतम् ॥ २५॥ बााकणे तु चस्वार: प्रस्थाप्या नवभिः पदैः।। सप्त सप्त तदाश्रिता योज्या अशाष्टभिः पदैः ॥ २६॥