________________
(५८) वास्तुपदेवताभिधाननिर्णयो नामाष्टपञ्चाशं सूत्रम् ॥
विश्वकर्मोवाच
स्वस्तिकं च प्रवक्ष्यामि तच्चैकपदसंश्रितम् । त्रयोदश सुरा मध्ये द्वात्रिंशद् बाहत: स्थिताः ॥ १॥ तथा कूट त्रिभिः कृत्वा मध्ये ब्रह्मा नवांशके । तृतीयांशेष्वर्यमाद्या ऽयंशेषु कर्णदेवताः ॥२॥ तासामचे बाह्यतश्च द्वात्रिंशत्परिधौ क्रमात् । इदं च स्वस्तिकं प्रोक्तं सर्वशान्तिकरं नृणाम् ॥ ३॥
इति स्वस्तिकवास्तु ॥ अथात: पुष्पकं वक्ष्ये चेदाथं च चतुष्पदम् । ब्रह्मणः पदमेकं तु तत्पादेष्वर्यमादयः ॥४॥ अर्यम्णः पदमानेन चाष्टौ ताः कर्णदेवताः। मूलपदषोडशांशे शेषा बाह्ये प्रकीर्तिताः ॥५॥
इति पुष्पकवास्तु ॥ नन्दे ब्रह्मा पदं चैकं ब्रह्मयशेन चार्यमा । तत्यशैः कर्णदेवाश्च द्वात्रिंशश्च तदर्धतः ॥ ६॥
इति नन्दवास्तु ॥ षोडशाख्ये पदं ब्रह्मा हर्यमार्धे तु कर्णगाः । कर्णार्धे बाह्यतो देवास्तदर्धाधै कर्णाष्टकम् ॥ ७ ॥
इति षोडशाख्यवास्तु॥ ब्रह्मार्यमैकैकपदं तदध कर्णषोडश । चतुर्थीशपदाः सर्वे तद्बास्तु तिलकं भवेत् ॥ ८॥
इति कुलतिलकवास्तु ॥ चतुष्पदो भवेद् ब्रह्मा द्विपदाश्चार्यमादयः । कर्णाश्चार्धपदाः सर्वे व्यंशोनेषु च शेषकाः ॥९॥
इति सुभद्रवास्तु ॥ चतुष्पदो भवेद् ब्रह्मा त्रिपादा अर्यमादयः । कर्णाः सपादाश्चैकोनं कर्णबाह्येऽर्धपादकाः ॥ १० ॥ षडंशोनपदाः शेषाश्चतुर्विंशतिसङ्ख्यया। मरीचिगणमित्युक्तं सप्तसप्तपदात्मकम् ॥ ११ ॥
इति मरीचिगणवास्तु ॥