________________
वास्तुक्षेत्रात्मकं सप्तपश्चाशतमं सूत्रम् ॥ प्रासादा विविधाश्चैव विविधाश्चात्र मण्डपाः । जगतीलिङ्गपीठे च भद्राख्यं राजवेश्मनि ॥ १५॥ प्रासादाश्चव मेाद्या लिङ्गं षट्करतः परम् । महा देशराष्ट्रे च सर्वतोभद्रमर्चयेत् ॥ १६ ॥ अधस्तात् सर्वतोभद्राद् भद्राख्योपरि वास्तुकम् । मध्ये च द्वाविंशतिभिर्गुणिता पदकल्पना ॥ १७ ॥ पटक्षेत्राणि प्रवक्ष्यामि वास्तुपदनिवासिनाम् । संस्थानोन्मानसूत्रं च वास्तुवेदसमुद्भवम् ॥ १८॥ चतुरश्रमायतं च वृत्तं वृत्तायतं तथा । अष्टाधं चार्धचन्द्रं च वास्तुसूत्रं तु षड्विधम् ॥ १९ ॥ प्रासादेषु गृहायेषु पुरग्रामनिवेशने । क्षेत्राणि चतुरश्राणि चतुरनं समर्चयेत् ॥२०॥ तथाथताश्च प्रासादाः पुष्पाक्षकुलसम्भवाः । यथायतानि क्षेत्राणि पूजयेच तथायतम् ॥ २१ ॥ वापीकृपक्षेत्रकाणि वृत्तानि प्रतिमास्तथा। कैलासच्छन्दोद्भवाश्च सर्वे वृत्ताः प्रकीर्तिताः ॥ २२ ॥ वृत्तायताश्चमणिका अश्शाला अष्टाश्रकाः। तडागेषु समस्तेषु ह्यर्धचन्द्रं प्रपूजयेत् ॥ २३ ॥ क्षेत्रषटकात्मके वास्तौ बाणवेदाश्च देवताः। त्रयोदश स्थिता मध्ये द्वात्रिंशद् वाहतस्तथा ॥ २४॥ सूत्रबाोऽप्रदेव्यश्च ईशादिषु प्रदक्षिणम् । तासां पदविधिर्नास्ति केवल पूजनं स्मृतम् ॥ २५ ॥
इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वास्तुक्षेत्राधिकारो नाम सप्तपञ्चाशत्तमं सूत्रम ॥.