________________
(५७) वास्तुक्षेत्रात्मकं सप्तपञ्चाशं सूत्रम् ।
-
-
विश्वकर्मोवाच
स्वस्तिकं पुष्पक नन्दं षोडशाक्षं चतुर्थकम् । पञ्चमं कुलतिलकं सुभद्रं षष्ठमेव च ॥ १ ॥ सप्तमो मरीचिगणो भद्रकं स्यात्तथाष्टमम् । नवमं कामदं प्रोक्तं दशमं भद्रमुच्यते ॥२॥ सर्वतोभद्रनामाख्यमतऊर्ध्वं न कारयेत् । वास्तून्येकादशैव स्युः प्रोक्तानि परमेश्वरैः ॥ ३ ॥ पदमेकं स्वस्तिक स्यात्पुष्पकं पञ्चतुष्टयम् । नन्दं नवपदं प्रोक्तं षोडशं षोडशपदैः॥४॥ पञ्चविंशतिभिः कुलं षट्त्रिंशद्भिः सुभद्रकम् । एकोनपञ्चाशत्पादैमरीचिगण उच्यते ॥ ५॥ भद्रकं तु चतुःषष्टिरेकाशीतिश्च कामदम् । शतपदैस्तु भद्राख्यं सहस्रः सर्वतोद्भवम् ॥ ६॥ पदसङ्ख्यास्तु कथिता वास्तुस्थानानि वच्म्यहम् । स्वस्तिकं पदसंस्थाने भुवतः कथ्यते बुधैः ॥ ७ ॥ श्रीधरं राजगेहाना हादीनां ध्रवं यथा । चतुष्की देवताग्रे या विद्यारम्भे तत्स्वस्तिकम् ॥ ८॥ दीक्षा विविधयात्रासु कन्यालने च पुष्पकम् । नन्दं प्रपूजयेद्धास्तु वनयात्रादिशोभनम् ॥९॥ लतिने रुचकादीनां मण्डपेषु गृहादिके। जगती वसुधायुक्तं षोडशाख्यं तु पूजयेत् ॥ १० ॥ दक्षिणोत्तरषटकाद्यं शक्राय ? कमलोद्भवम् । धीमात्रादिषु दीक्षासु तिलकं तु प्रपूजयेत् ॥ ११ ॥ सुकर्मणि च प्रस्थाने सुभद्रं च प्रशस्यते । समस्तजीर्णोद्धारेषु मरीचिगणमर्चयेत् ॥ १२ ॥ ग्रामखेटपुरादा च कूपे च कर्वटादिके। तथा राजनिवेशे च भद्रकं पूजयेत्सदा ॥ १३ ॥ गृहादिषु समस्तेषु तृणपट्टच्छन्दादिषु । पाण्ड्वश्वपूर्णखण्डेषु कामदं वास्तु पूजयेत् ॥ १४ ॥