________________
१३१
वास्तूत्पत्तिर्नाम चतुःपञ्चाशत्तम सूत्रम् ॥ ईश्वर उवाच
शणु भार्गव दैत्येन्द्र विद्याप्रस्तारनिर्णयम् ।। त्रिषु स्थानेषु प्रस्तायं गुरुस्थाने नियोजितः ॥ १५ ॥ अविद्यागुरुलब्धाङ्गदोषपापानुसङ्ग्रहे ।
ज्ञानोन्मीलनं तद् भक्त्या विद्यासिद्धिश्च वृद्धतः ॥ १६ ॥ भार्गव उवाच
इयं विद्या व देवेश सर्वपुण्यानुचेतसा । पुण्ये न सूक्ष्मतां याति प्रकाशात् पापविग्रहौ ॥ १७ ॥ पुण्यस्थानानि सर्वाणि यानि कुर्वन्ति भूतले । पृथगेकैकसंस्थाने पूजा चाऽस्य प्रदीयते ॥ १८ ॥ प्रतिष्ठा सप्तपुण्याह शान्तिकानि चतुर्दश । समस्तपुण्यस्थानेषु पूजा चास्य प्रदीयते ॥ १९ ॥ एषां वृद्धिं च संत्यज्य ? ततो यान्ति स सूक्ष्मतः ? । ब्रह्माद्याश्च सुराः सर्वे निवसन्त्यस्यदेहके ॥ २० ॥ यदा विमुक्तो देवैस्तु अस्य पूजा न दीयते। ततः काले समुद्भूतः सुरासुरभयंकरः ॥ २१॥ देवतागृहवावाद्यां ? शिव: साक्षाद्भुगूदितः। संकल्पपुण्यस्थानानि पूजा चास्य निवेदिता ॥ २२॥ तदा तत्सूक्ष्मतां याति विद्यारूपं महासनम् । सुरैराक्रम्यते स्मैवमधोवक्त्रं निपातितम् ॥ २३ ॥ संस्थाप्य मध्यपाताले सुहितैः सुरसंघटैः । तद्वच्च संस्थिताः पूज्या ब्रह्माद्या देवतास्तथा ॥ २४ ॥ शिरस्तस्यैवमीशाने पादौ नैत्यगोचरौ। अग्निकोणे च वायव्ये प्रकोष्ठजानुसंस्थितिः ॥ २५ ॥ पञ्चचत्त्वारिंशद्देवा देव्यष्टकमथापि च । त्रिपञ्चाशश्च त्रिदशाः पूज्यास्तत्र क्रमोदिताः ॥ २६॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां महेश्वरशुक्रसंवादे वास्तूत्पत्त्यधिकारो नाम चतुःपञ्चाशत्तमं सूत्रम् ॥