________________
(५५) वास्तूत्पत्त्यधिकारे देवतान्यासो नाम पञ्चपञ्चाशत्तमं सूत्रम् ॥
विश्वकर्मोवाच
ईशस्तु संस्थितो मूर्ध्नि पर्जन्यः कर्णयोर्दितिः । जयादिती स्कन्धयोश्च ह्युभयोर्वामदक्षिणम् ॥ १ ॥ आपस्तथा च गलके आपवत्सो हृदि स्थितः । मरीचिः पृथ्वीधरच संस्थितौ स्तनयोर्द्वयोः ॥ २ ॥ नाभिमध्ये स्थितो ब्रह्मा नाभिपृष्ठानुसंस्थितौ । सावित्री कुक्षिमध्ये तु रुद्रदासो द्वितीयके ॥ ३ ॥ इन्द्र इन्द्रजयश्चैव श्रोणीमध्ये तु संस्थितौ । अङ्गुष्ठाग्रे च पितरौ गुल्फे दौवारिको मृगः ॥ ४ ॥ अन्तरीक्षः कूर्परा नागश्चैव द्वितीयके । वामे जानौ स्थितो रोगो दक्षिणे चाग्निदेवता ॥ ५ ॥
महेन्द्रादित्य सत्यादि भृशान्ता दक्षिणे भुजे । मुख्यभल्लाट सोमादि गिर्यन्ता वामके भुजे ॥ ६ ॥ सविता याम्यतो बाहौ रुद्रश्चैव द्वितीयके । मित्रश्च वामत ऊरौ विवस्वांश्चैव दक्षिणे ॥ ७ ॥
सुग्रीवः पुष्पदन्तश्च वरुणासुरशोषकाः । पापयक्ष्मा षडेते वै नलके वामके स्थिताः ॥ ८ ॥ पूषा च वितथश्चैव गृहक्षतयमौ तथा । गन्धर्वभृङ्गा देवाः षड् दक्षिणे नलके स्थिताः ॥ ९ ॥ ईशोरों विद्यात् पावको विदारिकाम् । निर्ऋत्यूर्ध्व पूतनां च रोगोर्ध्वे पापराक्षसीम् ॥ १० ॥ प्राच्यां तु पिलिपिच्छा स्याज्जृम्भा स्याद्याभ्यतो दिशि । वारुण्यां विन्यसेत्स्कन्दामर्यमा चोत्तरस्थिता ॥ ११ ॥ नास्ति वासां पद्विधिः पूजां गृह्णन्ति केवलम् । निवासः सर्वदेवानां वास्तु वै स्थानतो विदुः ॥ १२ ॥ अङ्ग सन्धि च सूत्रादिं विद्यात्पश्चाच्च वास्तुनः । समस्तपुण्यस्थानानि वास्तुपूजासु वै विदुः ॥ १३ ॥ द्वयष्टसन्धि तथाष्टाङ्गं द्व्यष्टसूत्रं तथैव च । पञ्चक्षेत्रमिदं वास्तु स्वरूपं पुरुषाकृति ॥ १४ ॥