________________
(५४) वास्तूत्पत्तिर्नाम चतुःपञ्चाशत्तमं सूत्रम् ॥
रुद्र उवाच
भी भार्गव महावीर कस्मात्स्थानादुपागतः । कृतं त्वया त्वद्भुतं हि धराधर्मविनाशनम् ॥ १ ॥
सामर्थ्यतो विसृजता पुरुषं यज्ञध्वंसकम् । इन्द्राद्या असुरपार्श्वे निग्राह्या इति निश्चयात् ॥ २ ॥ शुक्र उवाच
पुरा चाराधितो देवो दिव्यं वर्षसहस्रकम् । तदाज्ञया मया लभ्या विद्यामरत्वदायिनी ॥ ३ ॥ रुद्र उवाच
दिव्यं वर्षसहस्रं च तपः कृत्वा सुदारुणम् । तोषितोऽहं तथा विष्णुः शुक्रेण मुनिना त्वया ॥ ४ ॥ जरा ? लिङ्गोद्भवे व्योक्ति तुष्टो देवो जगत्पतिः । ध्यानं मन्त्रजपं कृत्वा प्रीणय त्वं परेश्वरम् ॥ ५ ॥ प्रासादान्मान्त्रिकी विद्या सप्ताक्षर्यथ संहिता । तुष्टेन कथिता विद्या सर्वकर्मानुसारिणी ॥ ६॥ साधयामि यत्कृते च सर्वदेवभयंकरम् । मन्त्रैः स्तुत्या च युद्धैश्च दायं दास्यन्ति देवताः ॥ ७ ॥
अहो ये मुनयः सर्वे रुद्रेशं पुरुषोत्तमम् । उपाश्रयन्ति देवेशं भयं जयन्ति निर्जराः ॥ ८ ॥
पद्मासन श्रृणु त्वं च विष्णुर्वचनमब्रवीत् । नया वध्यते साधो अस्माभिर्न च दैवतैः ॥ ९॥
मन्त्रमूर्तिरियं वास्तू रुद्रदेहसमुद्भवः । इदं तु वास्तुरूपं च दुर्धरं च पुनः शिवात् ॥ १० ॥ इदं च वचनं श्रुत्वा पद्मभूः पुरुषोत्तमात् । शरणं वद देवानां विष्णुरद्भुतविक्रमः ॥ ११ ॥ रुद्रलोके ततो गत्वा ध्यात्वा देवं महेश्वरम् । अद्भुतं भूतमभ्यर्च्य भूतं दृष्ट्वा च भूतले ॥ १२ ॥ यदा सत्त्वं भवेद् ज्ञानं भवेत्तुष्टिर्भवो ? वृथा । तदा सुरासुरैर्वध्य आज्ञालोपो भवेत्प्रभोः ॥ १३ ॥ शास्त्रच्छेदो न च भवेत् म्रियते न तथोदके । अग्निदेवात्समुत्पन्नो ह्यवन्ध्यो देवदानवैः ॥ १४ ॥