________________
(५३) देवासुरसंग्रामादिवास्तूदुभवो नाम त्रिपञ्चाशं सत्रम ।
अपराजित उवाच
गन्धमादनपृष्ठेऽथ शैलराजमहोत्सवे । सुरविद्याधरै रम्ये ऋषिसंघसमाकुले ॥१॥ सिद्धचारणसंगीते एप्सरोगणसेविते । दिग्विदिग्वासिभीरम्ये सरिताद्वयसङ्गमे ॥२॥ तत्रस्थं च सुखासीनं विश्वकर्ममहौजसम् । वेदवेदाङ्गतस्वझं सर्वशास्त्रविशारदम् ॥ ३ ॥ शिरसा प्रणिपत्याथ जानुभ्यां धरणीगतः । दण्डवश्चाग्रतो भूत्वा पप्रच्छ स्वपराजितः ॥ ४ ॥ कथं वास्तु समुत्पन्नं निर्मितं वा कुतः कदा । वास्तोरुत्पत्तिस्तात देवादेश्च निघण्टुकम् ॥ ५॥ एकपादादिकं वास्तु यावत्पदसहस्रगम् । मोपमर्मवंशांश्च रेखासन्धिसुरादिकम् ॥ ६॥ बलिकर्मविधिं चैव वास्तुपादनिवासिनाम् ।
एतत्सर्व प्रयत्नेन कथयस्व जगत्पते ॥७॥ विश्वकर्मोवाच
शृणु वत्स महाप्राज्ञ यत्त्वया परिपृच्छितम् । कथयामि न सन्देहो वास्तोरुत्पत्तिलक्षणम् ॥ ८॥ पूर्व देवासुरे युद्धे महाघोरे सुदारुणे। संघट्टे नरसंकीर्णे श्रोणीगाः परस्परम् ॥ ९॥ महारौद्रैः कटाक्षश्च शस्त्रधातैः परस्परम् । महाबलोत्कटा वीराः संग्रामे हेतिकाक्षिणः ॥ १० ॥ निर्जिताश्च ततो देवा दैत्येन्द्राः प्रबलाः स्थिताः । तथा किलकिलायन्ति पूर्वदेवात्मसम्भवाः ॥ ११ ॥ भूमिकम्प प्रकुर्वन्ति ह्यचाल्या: पर्वता इव । अनन्तरं सुरा इन्द्रो मन्त्रयित्वा परस्परम् ॥ १२ ॥ ततः स्मृत्वात्मशक्तीश्च झानदेहसमुद्भवाः । त्रयस्त्रिंशत्कोटयश्च सुरास्ते च महोत्कटाः ॥ १३ ॥ पुनरायोज्यसंग्राम दैत्येन्द्रश्च परस्परम् । सकोपाश्चैव संग्रामे सुरासुरमहोत्कटाः ॥ १४ ॥