________________
अपराजितपृच्छा इत्यन्तं तु समुद्दिष्टं वास्तुस्थानविसर्जनम् । शिलान्तं वा जलान्तं वा खात्वा शल्यं समुद्धरेत् ॥ १६ ॥ जलान्तेषु यदा खातो गोविनोदक ? पालनम् । वास्तु पूजां ततः कृत्वा मध्ये कूर्म तु स्थापयेत् ॥ १७ ॥ हिरण्मयो भवेत्कूमों वास्तुविस्तारधारणः । उरोरत्नैर्नेत्ररत्नैः पृष्ठरत्नैश्च शोभितः ॥ १८ ॥ समुपेतैः सर्वगात्रै रौप्यपादोपशोभितः । एवं वै सूत्रितं सर्व रत्नकाञ्चनरूप्यकम् ॥ १९ ॥ तत्रैव स्थापिता; सूत्र पर्वता द्वीपसागराः । शिलाभिरिष्टिकाभिश्च ततः खातं प्रपूरयेत् ॥ २० ॥ इष्टकाचयनं कृत्वा पूरयेश्च स्तरं स्तरम् । कपिशीर्षे च पाषाणे मृदश्चाष्टाङ्गला दहेत् ॥ २१ ॥ जलेन प्लावितास्ताश्च मुहूरस्या हनेत्ततः। पालाशस्वस्थसंभूतैर्हनेत्ताः सुदृढं ततः ॥ २२ ॥ पादोनं पूरयेत्प्रान्तं तत्यनं च प्रादायिकम् ?। हस्वं हस्वं तु कर्तव्यं प्रासादस्य तलं तथा ॥ २३ ॥ एक हस्ते तु प्रासादे कूर्मः स्याश्चतुरङ्गुलः । अर्धाङ्गला भवेबृद्धिः प्रतिहस्तं दशावधि ॥ २४ ॥ पादवृद्धिः पुनः कुर्याद्विशतिहस्तत: करे । ऊर्ध्व वै त्रिंशद्धस्तान्तं वसुहस्तकमङ्गलम् ॥ २५ ॥ ततःपरं शतार्धान्तं सूर्यहस्तैकमङ्गुलम् । अनेन क्रमयोगेन मन्वङ्गलं शतार्धके ॥२६॥ कनिष्ठं पादहीनं च ज्येष्ठं पादाधिकं तथा । साधारणमिदं मान त्रिविधं कूर्ममानतः ॥ २७ ॥ हैमो रौप्यश्च कर्त्तव्यः सर्वपापप्रणाशनः । इत्थं कूर्म यः करोति सर्वयज्ञफलं भजेत् ॥ २८ ॥ स्नानं पञ्चामृतैः कार्य कूर्मस्य च यथाविधि । अर्चयित्वा प्रयत्नेन धूपयित्वा सुगन्धिना ॥ २९ ॥ तिलैर्यवैस्तथा होमं कुर्यात् पूर्णाहुति तथा । निवेशयेदिमं कुर्म वेदवादित्रमङ्गलैः ॥ ३० ॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचायोक्तापराजितपृच्छायां
कूर्मप्रमाणपदप्रतिष्ठाधिकारो नाम द्विपञ्चाशं सूत्रम् ॥