________________
(५२) कूर्मप्रमाणपदप्रतिष्ठा नाम द्विपञ्चाशं सूत्रम् ॥
विश्वकर्मोवाच
शस्ते मासे सिते पक्षे हातीते चोत्तरायणे। ताराचन्द्रबले चैव योगे चामृतसम्भवे ॥१॥ सूत्रपातस्तु कर्तव्य: प्राची साध्या ततो भवेत् । चतुरश्चं समं कृत्वा दिग्मूढं परिवर्जयेत् ॥ २॥ पूर्वपश्चिमदिग्मूढं वास्तु स्त्रीनाशकं स्मृतम् । दक्षिणोत्तरदिग्मूढं सर्वनाशकरं भवेत् ॥३॥ विसूत्रं च भवेत्तच्चेत् सूत्रसन्तापकारकम् । प्रासादस्य प्रमाणेन सूत्रैः क्षेत्र प्रसाधयेत् ॥४॥ प्रासादे भित्तिसंयुक्तो गृहे भित्तिस्तु बाह्यतः । कर्तव्यो मण्डपैर्युक्तो जगत्यायाम एव च ॥ ५ ॥ अथाख्यास्ये पुनश्चान्यद् जीर्णप्रासादलक्षणम् । भग्नं द्रव्यादिकं वापि उद्धारेऽगुणं फलम् ॥ ६॥ पूर्वमानप्रमाणं च कारयेत्तद्विचक्षणः। तद्रूपं तत्प्रमाणं च पूर्वसूत्रं न चालयेत् ॥७॥ चलिते चालिते वापि दिग्मूढे स्थानवास्तुषु । तस्मात्सर्वप्रयत्नेन पूर्वसूत्रं न चालयेत् ॥ ८ ॥ चलिते चालिते चैव सूत्रस्थाने च विग्रहम् । हीने हानि प्रकुर्वीत चाधिके स्वजनक्षयम् ॥ ९॥ भूपरिग्रहणे चैव वास्तुविद्याविशारदैः । वास्तुस्थानं पुरा शात्वा खनेश्चैवं प्रदक्षिणम् ॥ १० ॥ पिता माता च पुत्राश्च नाशं गच्छन्ति मस्तके। पृष्ठे चारमविनाशश्च देशत्यागश्च जायते ॥ ११ ॥ स्त्रीस्वगोत्रविनाशश्च चतुःपादेषु वै क्रमात् । जायते धननाशश्च मर्मवेधे कृते सति ॥ १२॥ शुभं पुत्रो धन धान्यं ज्ञात्वा कुक्षि यदा खनेत् । कृत्वा प्रदक्षिणं कुम्भं गृहीत्वा स्थापितं ततः ॥ १३ ॥ कुक्षिं खातोदकै त्वा शान्तिमुश्चार्यशोभनाम् । तथोदकैर्वन्दनीयं वास्तुदेवं विसर्जयेत् ॥ १४ ॥ विदिशु दिनु खातानि प्राच्यादिषु प्रदक्षिणम् । तथा घटोदकैर्मृत्वा वन्दयेच्छान्तिपाठकः ॥ १५ ॥