________________
१२४
अपराजितपृच्छा शिरीषशालतालानां वैश्यजातेः प्रकीर्तिताः । सर्जकार्जुनयोस्त्वेवं शूद्राणां च सुखावहाः ॥ १६॥ द्वात्रिंशदङ्गलो विप्रे चाष्टाविंशतिः क्षत्रिये । चतुर्विशाङ्गुलो वैश्ये शूद्रे विंशाङ्गुलो भवेत् ॥ १७ ॥ चतुरश्रो भवेद विप्रे चाष्टाधः क्षत्रिये मतः । षोडशावस्तु वैश्ये स्याद् वृत्तः शूद्रे प्रकीर्तितः ॥ १८॥ विप्रस्य दर्भ सूत्रं मौज तु क्षत्रियस्य च। कासजं तु भवेद् वैश्ये शाणं शूद्रस्य कीर्तितम् ॥ १९ ॥ न काष्ठलोहाङ्गारैश्च नखपादैरुद्घाटनम् । शस्त्रे शस्त्रभयं विद्यात् सूत्रछेदे तु मृत्युदम् ॥ २० ॥ आलिख्य होमशालायां धर्मकामार्थसाधकम् । कृत्वा पुष्पाक्षतं पात्रे जलरेखां समुद्धरेत् ॥ २१॥ बलिं दद्याद्यथान्यायं शास्त्रदृष्टेन कर्मणा। आफालयेत् ततः कीलं प्रथमं वह्निगोचरम् ॥ २२॥ नैर्ऋत्यान्ते द्वितीयं च वायव्यं तदनन्तरम् । ईशान्यां च पुनर्दद्यात् सूत्रं यावच्चवह्निगम् ॥ २३ ॥ गृहीत्वा मुद्रं शिल्पी प्रहारांस्त्रीन् प्रदापयेत् । चतुर्थाशे गते कीले सा मही चोत्तमा मता ॥ २४ ॥ मध्यमा स्यात्रिभागेन कनिष्टाधेन च स्मृता। अत ऊर्ध्व गते कीले विद्यान्न शिवमालयम् ॥ २५॥ हन्यमानो यदा कीलो नमित; कां दिशां प्रति । तन्माहात्म्यमथाख्यास्ये नमिते कीलके फलम् ॥ २६ ॥ प्राच्यां स्यादर्थसम्पत्तिः सन्तापो ह्यग्निगोचरे। दक्षिणे विपुला भोगा नैर्ऋत्ये कलहः सदा ॥ २७ ॥ पारुण्यां धनधान्यं च वायव्यां स्त्रीप्रदूषणम् । उत्तरे सर्वभद्राणि हीशाने मरणं ध्रुवम् ॥ २८ ॥ प्राञ्जल: सिद्धिदः प्रोक्तोऽन्यथा चैवमसिद्धिदः । भग्नश्च मृत्युदः प्रोक्तः कीलकस्य महात्म्यकम् ॥ २९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
भूपरिग्रहकीलकारोपणाधिकारो नामैकपञ्चांशं सूत्रम् ॥