________________
भूपरीक्षाग्रहकोलकारोपणमेकपञ्चांशं सूत्रम् ॥ गतघटि ऋक्षहता: षष्टिहते च शेषकम् । रविशशिभुक्तकालं रविचन्द्रसंलग्नकम् ॥४९॥ . श्वेता च ब्राह्मणी भूमी रक्ता वै क्षत्रिया स्मृता । पीतवर्णा भवेद्वैश्या शूद्री तु कृष्णवर्णिनी ॥१॥ घृतगन्धा भवेद्विनी राज्ञी रक्तानुगन्धिनी । क्षारगन्धा भवेद्वैश्या शूद्री विष्ठानुगन्धिनी ॥२॥ ब्राह्मणी मधुरास्वादां कषाया क्षत्रिया तथा। क्षारास्वादा भवेद्वैश्या शूद्री स्यात्कटुका तथा ॥ ३ ॥ एवं परीक्षयेद् भूमि वर्णैर्गन्धैश्च स्वादतः । गोमयेन समालिप्य नन्द्यावर्त तु स्वस्तिकम् ॥ ४ ॥ स्थापयेदामघटं वर्धमानेन संयुतम् । घृतेन ज्वालयेद्वर्तीश्चतस्रश्च चतुर्दिशम् ॥५॥ आद्योद्भवे यथा धर्तिस्तद्वणी सा मही मता। सूत्रधारस्य हस्ते तु कुद्दालं तु तथोत्तमम् ॥ ६॥ स्थित्वा पूर्वाभिमुखतः शुचिः रातो जितेन्द्रियः । शुक्लाम्बरधरो नित्यं शुक्माल्यानुलेपनः ॥ ७ ॥ प्रहारं दापयेत्तत्र लक्षयेद्रेणुमुच्छ्रितम् । पूर्वापरयाम्योत्तरं वर्णैः प्राच्यादिशस्तकम् ॥ ८ ॥ ततो वास्तुं च सम्पूज्य तत्तरक्षेत्रेषु कल्पितम् । पुष्पाक्षतः समालिख्य निलयाधः प्रमाणतः ॥९॥ सूत्रधारो महाप्राज्ञः शुक्लाम्बरधरः शुचिः। करे गृहीत्वा कुदालं दृढश्चैकाग्रमानसः ॥१०॥ तुरवादिनिधोमङ्गलैः शब्दसंकुलम् । प्रहारं दापयेत्तत्र तत्कुक्षौ वह्निगोचरे ॥ ११ ॥ उद्धृते चैव कुद्दाले ततो रेणुं निरीक्षयेत् । उत्तरे तु भवेत्क्षेमं पश्चिमे पुत्रपौत्रकम् ॥ १२ ॥ पूर्वे तथोत्तमं विद्यादीशाने मोक्षदायकम् । इतरासु चतुर्दिक्षु सर्वदोषसमुद्भवः ॥ १३ ॥ आनीय कीलक सूत्रं रोपयेच्च चतुर्दिशम् । कीलकस्य च सूत्रस्य वर्णभेदांश्च लक्षये ॥ १४ ॥ प्रशस्यन्ते ब्राह्मणानां कीला आश्वस्थकीलकाः । उदाहता क्षत्रियाणां खादिरा राक्तचन्दनाः ॥ १५॥