________________
१२२
अपराजितपृच्छा द्वयोः प्रहरयोश्च्छाया वृक्षप्रासादगुल्मजा । हर्म्यगृहे तथैवं स्याद्धःस्तान्नैव निन्दिता ॥ ३३ ॥ अका अशोका अश्वत्था: केतकीबीजपूरकाः। यस्मिन् गृहे प्ररोहन्ति तद् गृहं नैव वर्द्धते ॥ ३४ ॥ दाडिमं च हरिद्रां च श्वेतां च गिरिकर्णिकाम् । यदीच्छेदात्मनः श्रेयो गृहद्वारे न रोपयेत् ॥ ३५ ॥ स्यक्ता चोग्रतमं वक्षं कटुक कण्टकान्वितम् । अपि सौवर्णिकान्वृक्षान् गृहाश्रये न रोपयेत् ॥ ३६ ॥ न्यग्रोधोदुम्बरप्लक्षास्तथा वै कार्मुकादिकान् । वर्जयेद् गृहमाश्रित्य हर्म्यवृद्धिर्न विद्यते ॥ ३७॥ खजूरी दाडिमी रम्भा कर्कन्धू बीजपूरिका । यस्मिन् गृहे प्ररोहन्ति तद् गृहं नैव वर्द्धते ॥ ३८॥ नकुलश्चोरगो यत्र क्रीडतः स्नेहत उभौ । तत्रस्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥ ३९ ॥ बिडाला मूषकाः स्नेहाद्रमन्ते च परस्परम् । तत्र स्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥ ४०॥ सर्पाश्च मूषकाः स्नेहात् क्रीडन्त्यानन्दरूपकाः । तत्र स्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥ ४१ ॥ यत्र ना दृश्यते शल्यं द्रव्यं तत्र तथोच्यते । तत्र स्थाने महीं खात्वा द्रव्यं तिष्ठति निश्चयम् ॥ ४२ ॥ अष्ट पूर्वायता रेखा भिन्नाः पञ्च समुद्धरेत् । पदैरष्टाविंशतिभिक्षसङ्ख्या तथैव च ॥ द्वारमध्ये कृत्तिका च शाखयोर्भरणीमधे ॥४३॥ चन्द्रे द्रव्यं तथा सूर्ये शल्यं चैव विनिर्दिशेत् । अहिबलचक्रे प्रोक्ता स्वसरो धृत्याश्च केवली ? ॥४४॥ अश्विन्यादि त्रिकं चैव आदि पञ्चकं तथा । पूर्वाषाढा चतुष्कं च रेवती चोत्तरात्रयम् ॥ ४५ ॥ शशिभानि किलैतानि शिष्टानि रविभानि च । चन्द्रः च स्थिते सूर्ये चन्द्रे सूर्यक्षसंस्थिते ॥ ४६॥ नत्र शून्यं भवेत्स्थानं द्रव्यशल्यविवर्जितम् । द्रव्यशल्यविना त्वेवं शल्यद्रव्यादि कथ्यते ? ॥ ४७ ॥ चन्द्रः पूर्व परं भानुस्तत्र शल्यं विनिर्दिशेत् । भानुः पूर्व परं चन्द्रस्तत्र शल्यं विनिर्दिशेत् ॥४८॥