________________
भूपरीक्षाग्रहकीलकारोपणमेकपञ्चांश सूत्रम् ॥
नश्यन्ति पुरुषास्तत्र देवता च प्रणश्यति । धनहानिकरो नित्यं रोगकद् दक्षिणः प्लवः ॥ १६॥ प्रवर्तयेद् गृहे पुंसां रोगांश्च मृत्युदायकान् । धनहानि तथा नित्यं कुरुते नैर्ऋतिलवा ॥ १७ ॥ पश्चिमलवका भूमिर्धनधान्यविनाशिनी । शोकदाहा कुलं तत्र यत्र भूः पश्चिमप्लवा ॥ १८ ॥ शत्रुकी विरागा च गोत्रक्षयकरी तथा । गृहे च कन्यकाहन्त्री सदा दुःखभयावहा ॥ १९ ॥ भुक्तं न जीर्यते तस्य मह्यां तत्र तु यो वसेत् । पतान् दोषानावहति दोषदा वायुदिक्लवा ॥ २०॥ पूज्या लाभकरी नित्यं पुत्रपौत्रविवर्धिनी । कामदा भोगदा चैव धनदा चोत्तरप्लवा ॥ २१ ॥ नरसौख्यसतीसत्यसौभाग्यादिविवर्द्धिनी । धनार्थेश्वर्यसंपन्ना धर्मदेशानकालवा ॥ २२ ॥ सा विद्या धनसंपन्ना सर्वलोकहितावहा । विनयाचारसम्पन्नपुत्रपौत्रादिसंकुला ॥ २३ ॥ नीरोगा दानशीला च विशिष्टजनसेविता। पूर्वप्लवा तु या भूमिः शोभना सा प्रकीर्तिता ॥ २४ ॥ गृहप्रालादयो म्याः कथ्यतेऽनुक्रमोऽधुना। मध्यप्लवा निकृष्टा स्यात् कनिष्ठा मध्यवर्तका ॥ २५॥ सर्वनाशकरी पुंसां सा भूमिस्तु निवासिनाम् । वर्जयेद्विद्रुमां मां तु कराला मस्तकोन्नताम् ॥ २६॥ चौरेभ्यो भयदा नित्यं द्रव्यनाशकरी स्मृता । उच्छिन्ना च देवभूमी ऊसार्धास्यतव्यही ? ॥ २७ ॥ अजोष्ट्रखरसंसेव्यां वर्जयेत्तादृशीं महीम् ।। सशल्या बहुभक्ता च ह्यूषरा शोककारिका ॥ २८॥' त्रिविधा स्फुटिता मृद्वी वृष्टिशुष्का रिक्ताङ्गिका। कापादैः ? भ्रमगम्भीरा घटिका व्यक्षसिद्धिदा ॥ २९ ॥ वेणुगुल्मलताच्छाया द्विगुणा मध्यदूषिता । त्रिगुणा पुन्नागवृक्षैः क्षीरवृक्षश्चतुर्गुणा ॥ ३०॥ पञ्चधाश्वत्थवृक्षैश्च षड्धा धात्री महीरुहैः। सप्तधा पूर्णवृक्षश्च लिङ्गच्छाया तथाष्टधा ॥ ३१॥ एतापच्छायाः परित्यज्य वेश्म कुर्यादथाभयम् ।
वृक्षप्रासादयोश्च्छायां गृहे त्यक्ता शुभप्रदा ॥ ३२॥ १६ अ.